show episodes
 
Artwork

1
बालमोदिनी

सम्भाषणसन्देशः

Unsubscribe
Unsubscribe
रोज
 
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः ...
  continue reading
 
Artwork

1
Chanakya Neeti (Sutra Sahit)

Audio Pitara by Channel176 Productions

Unsubscribe
Unsubscribe
मासिक
 
This audiobook is a compilation of teachings by Chanakya, a prominent figure in ancient Indian literature. Among the numerous works of ethics literature in Sanskrit, Chanakya Neeti holds a significant place. It provides practical advice in a succinct style to lead a happy and successful life. Its main focus is to impart practical wisdom for every aspect of life. It emphasizes values like righteousness, culture, justice, peace, education, and the overall progress of human life. This book beau ...
  continue reading
 
Mrs. Shalini A. Gupta is a renowned consultant of Vastu Shastra and Feng Shui. She is a gold medalist in Vastu Shastra from Uttrakhand Sanskrit University.Mrs. Shalini A. Gupta is practicing the science of Vastu Shastra and Feng Shui for the last many years and has given consultations to a number of her clients within India as well as abroad. Vastu & Feng-Shui Consultation provided by Vastu Miracles is very powerful and effective.
  continue reading
 
Loading …
show series
 
Nityānanda Miśra is a Mumbai-based finance professional in the investment banking industry. He specialises in quantitative finance, equity market microstructure, algorithmic trading, and execution consulting. He is an alumnus of IIM Bangalore (2007) and a gold medalist from Gujarat University (2004).Nityānanda is a multifaceted personality—a Sanskr…
  continue reading
 
यवनाः यदा काशीविश्वेश्वरमन्दिरस्य नाशं कृतवन्तः तदा तस्मिन्नेव वर्षे तत्परिसरे क्षामः समुत्पन्नः । 'क्षामस्य कारणं किम् ? ' इति यवनैः पृष्टे तेजःसम्पन्नः महात्मा नारायणभट्टः वदति यत् भगवतः विश्वेस्वरस्य कोपः एव कारणम् अपि च मन्दिरस्य पुनर्निर्माणेन वृष्टिः भवेत् इति । 'स्वप्रभावेण आदौ वृष्टिः अनीयताम् ' इति यदा यवनाः कुप्यन्ति तदा नारायणभट्टः प्राय…
  continue reading
 
Dr Prasanna Tantri is an Associate Professor in the Finance area and Executive Director of the Centre for Analytical Finance at ISB. His research areas include- banking, financial inclusion, financial contagion, regulation, and the relationship between politics and finance. He teaches a course on Indian financial systems.…
  continue reading
 
कस्यचित् सरोवरस्य समीपे उपविष्टवन्तं चिन्ताग्रस्तं निर्धनं रामदीनं कश्चन सिंहः प्रभूतं धनं यच्छन् पुत्र्याः विवाहाय मामपि निमन्त्रयतु इति वदति । विवाहदिने सिंहः उपस्थितः । गृहपरिसरे कमपि दुर्गन्धम् अनुभूय वरपक्षीयाः तस्य कारणं अपृच्छन् तदा 'गृहे कश्चन मूषकः मृतः‌ स्यात्' इति रामदीनः वदति । अग्रे कदाचित् धनस्य आवश्यकताम् अनुभवतः रामदीनस्य साहाय्यं क…
  continue reading
 
१८३० तमे वर्षे राजस्थाने जोधपुरे प्रवृत्ता घटना एषा । अद्यापि राजस्थाने बहुत्र भाद्रपदशुक्लदशम्याम् अमृतदेव्याः वीरगाथा पठ्यते गीयते च । भारतसर्वकारस्य अरण्यपरिसररक्षणविभागेन श्रेठाय परिसरसंरक्षकाय 'अमृतदेवीप्रशस्तिः' दीयते । का सा अमृतदेवी ? किं कार्यं च कृतवती इति अस्यां कथायां विद्यते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया …
  continue reading
 
कश्चन बौद्धाचार्यः बुद्धप्रतिमां कारयितुम् इच्छन् प्रत्येकं गृहतः धनसङ्ग्रहं कुर्वन्तु इति शिष्यान् आदिशति । धनसङ्ग्रहसमये काचित् बाला शिष्याय एकं रूप्यकं दातुम् इच्छति किन्तु सः उपेक्षया पश्यन् ततः गच्छति । शिल्पिभिः महता प्रयासेन निर्मितायाः मूर्तेः मुखे प्रसन्नता तु न दृष्टा । बौद्धगुरुः ज्ञातवान् यत् कश्चन शिष्यः निर्धनबालातः अल्पत्वात् एकं रूप…
  continue reading
 
Dr Abhinav Pandya, a Cornell University graduate in public affairs and a bachelor's from St. Stephen's College, Delhi, is a founder and CEO of Usanas Foundation, an India-based foreign policy and security think tank. He has authored two books, Radicalization in India: An Exploration (2019) and Terror Financing in Kashmir (2023).He had previously ad…
  continue reading
 
कस्मिंश्चित् गुरुकुले बहुधा स्मारितं चेदपि पञ्चषाः छात्राः तत्तदिनस्य पाठं तद्दिने एव न पठन्ति स्म । तथापि गुरुः तान् न अतर्जयत् । कदाचित् गुरुः नदीतीरे सञ्चरन् दर्शयति यत् त्रिषु मण्डूकेषु एकः जलं प्रति कूर्दनं करणीयम् इति सङ्कल्पमात्रं करोति न तु कूर्दनम् । यस्य सङ्कल्पः दृढः सः एव कार्ये प्रवृत्तः भवेत् । तत्तदिनस्य पाठं तत्तदिने एव पठित्वा तस्य…
  continue reading
 
कदाचित् मरुप्रदेशे कश्चन स्पेन्-देशीयः वञ्चनया भारतीयस्य अश्वं हृत्वा तम् आरुह्य वेगेन गतवान् । भारतीयः कथञ्चित् स्पेनीयस्य दुर्बलम् अश्वम् आरुह्य स्पेनीयम् अनुसरन् समीपवर्तिग्रामं प्राप्य तत्रत्य न्यायाधीशं दृष्ट्वा स्पेनीयस्य दुष्कृत्यं सर्वं निवेदितवान् । न्यायाधीशेन पृष्टे सः स्पेनीयः आरोपं निराकरोति । तावता चतुरेण भारतीयेन काचित् युक्तिः प्रदर…
  continue reading
 
कदाचित् सम्भाषणावसरे मगधदेशस्य राजा चन्द्रगुप्तः प्रधानामात्यं चाणक्यं दृष्ट्वा पृच्छति - ‘रूपमेव प्रशस्यते लोके । रूपवेषादिकं दृष्ट्वा एव खलु आदरम् अनादरं वा दर्शयन्ति जनाः ?’ । तदा चाणक्यः सुवर्णमृदोः घटे जलं संपूर्य आदौ सुवर्णघटस्य जलं राज्ञे ददाति यत् उष्णम् आसीत् । तावता राज्ञा अवगतं यत् सुन्दरे स्वर्णघटे अपि स्थितं जलम् उष्णम्, असुन्दरे मृद्घ…
  continue reading
 
कदाचित् शिष्यः आनन्दः प्रसङ्गत्रयविषये वर्तमानां जिज्ञासां परिहर्तुं भगवन्तं बुद्धं पृच्छति - ‘भगवान् अस्ति इति कदाचित् वदति । भगवतः‌ पूजा मास्तु इत्यपि वदति । भगवतः अस्तित्वस्य विषये यदा कश्चन शिष्यः प्रष्टुम् आगतः तदा भवान् किमपि उत्तरं न ददाति । किमर्थम् एवम् ?’ इति । तदा बुद्धः यथाक्रमं तस्य प्रश्नस्य उत्तरं यच्छति (“केन्द्रीयसंस्कृतविश्वविद्या…
  continue reading
 
Sana Durrani, originally from Bhopal, is an educationist. She has overcome challenges to broaden her horizons, motivated in part by her 15-year-old son. Over the past few years, she has gained diverse life experiences, enhancing her perspective. She successfully organized the annual Military History Seminar at Welham Boys’ School, Dehradun, for fou…
  continue reading
 
कदाचित् बाबरः तेनालिरामस्य बुद्धेः परीक्षणार्थं स्वस्य आस्थानं प्रति तं निमन्त्रितवान् । विभिन्नैः कौतुकैः निजवार्ताभिश्च तत्रत्यान् सभासदः हासयितुं स असमर्थः अभवत् यतः बाबरेण आज्ञा कृता आसीत् यत् कोऽपि न हसेत् इति । एवमेव पञ्चदशदिनानि अतीतानि । किन्तु अन्ते तेनालिरामः तस्य वाक्पाटवं साधितवान् । कथम् इति इयं कथा कथयति । (“केन्द्रीयसंस्कृतविश्वविद्य…
  continue reading
 
पूर्वकाले यदा सर्वत्र दर्पणः व्यवाहारे न आसीत् तदा कदाचित् कण्णदासनामा कश्चित् वणिक् कुतश्चित् दर्पणम् एकं प्राप्तवान् । स्वस्यैव प्रतिबिम्बम् इति अज्ञात्वा कस्यचित् महापुरुषस्य भवेदिति विचिन्त्य सः प्रतिदिनं प्रकोष्ठं पिधाय दर्पणं दृष्ट्वा तं महापुरुषं नत्वा पेटिकायां स्थापयति स्म । पत्न्याः रोहिण्याः मनसि सन्देहे जाते कदाचित् कण्णदासस्य निर्गमनस्…
  continue reading
 
चेरराज्यस्य राजा ईश्वरभक्तः कुलशेखरः प्रतिदिनं हरिकथां श्रावयितुं कमपि पण्डितं स्वकीयप्रासादम् अनाययति स्म । एतत् अनिच्छन्तः राज्ञ्यः अमात्यः च मिलित्वा श्रीरामविग्रहस्थं हारं पण्डितस्य स्यूते स्थापयन्ति । कालसर्पदंशः एव दण्डः इति घोषयित्वा कालसर्पयुक्ते घटे यदा पण्डितः हस्तं निक्षेप्तुम् उद्युतः तावता राजा स्वयं हस्तं प्रवेशितवान् । विस्मयः‌ नाम र…
  continue reading
 
इङ्ग्लेण्ड्देशे केण्ट्नामकस्य प्रदेशस्य समुद्रतीरे महतः चण्डमारुतस्य कारणेन काचन बृहती नौका पीड्यमाना नुद्यमाना भग्नप्राया अभवत् । समुद्रतीरस्य जनसम्मर्दे केनचित् महनीयेन सह पालितः कश्चन बलशाली अप्रतिमशूरः धीरश्च शुनकः आसीत् । शुनकस्य स्वामी किञ्चित् चिन्तयित्वा नौकारक्षणाय एकम् उपायं कृत्वा शुनकं प्रेषयति । शुनकस्य साहाय्येन सर्वे नाविकाः तीरं प्र…
  continue reading
 
काचन वृद्धा गृहस्य पार्श्वे स्थितस्य कूपस्य जलम् आनीय दैनन्दिनकार्याणि निर्वर्तयति स्म । भैरवनामा कश्चन दुष्टः वृद्धायाः‌ कूपः मदीयः इति प्रतिपादयन् तस्य उपयोगम् आरब्धवान् । खिन्नया वृद्धया राज्ञि निवेदिते कथं राजा चातुर्येण न्यायनिर्णयं करोति इति शृणुमः । तेनैव राज्ञा रणजितसिंहेन अमृतसरसि सुवर्णालयः निर्मितः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष…
  continue reading
 
Major Bharat Singh Adhwariya is a decorated officer of the Indian Army. He was awarded the Gallantry Award in 2022 and has received numerous accolades, including a commendation from the Director General of Assam Rifles and recognition by the International Human Rights Organisation.A skilled civil engineer, Major Bharat helped plan and execute infra…
  continue reading
 
भूतपूर्वराष्ट्रपतिः मान्यः के आर् नारायणन्वर्यः बाल्यकाले सर्वदा शालां प्रति विलम्बेन आगच्छति स्म यतः सः प्रतिदिनं मातुः साहाय्यं कृत्वा अष्ट कि.मी. दूरतः पादाभ्यामेव आगच्छति स्म । किन्तु पठने सः अन्ये छात्राः इव एव आसीत् । एकदा विलबेन आगतवन्तं तं अध्यापकः तर्जयित्वा कक्ष्यायां प्रवेष्टुं न अनुमतवान् । बालः म्लानमुखः सन् कक्ष्यातः बहिः तिष्ठन् कक्ष…
  continue reading
 
कश्चन मुसल्मानः रसखानः गुरुणा सह मक्कामदीनायात्रार्थं प्रस्थिते मध्यमार्गे वृन्दावनं प्राप्तवान् । यमुनानद्याम् आसन्नायां सुमधुरः वेणुध्वनिः तस्य मनः पूर्णतः अहरत् । तत्र सुन्दरः वृन्दावनाधीशः दृष्टिगोचरतां गतः । पुनः अदृश्यः जातः च । पुनर्दर्शनार्थं रसखानः दिनत्रयं निराहारं श्रीकृष्णनाम्नः जपं कृतवान् । तृतीयदिने रात्रौ भगवान् स्वयमेव आगत्य नैवेद्…
  continue reading
 
दार्शनिकः कुमारिलभट्टः कदाचित् बौद्धदार्शनिकेन धर्मकीर्तिना पराजितः । तदा कुमारिलभट्टेन निश्चितं यत् बौद्धसिद्धान्ते तलस्पर्शि पाण्डित्यं प्राप्य एते बौद्धाः जेतव्याः इति । अग्रे सः वेदानां श्रेष्ठतां सयुक्तिकं प्रतिपाद्य बौद्धमतस्य दौर्बल्यं सप्रमाणं निरूपितवान् च । कुपिताः बौद्धाः 'यदि वेदाः प्रमाणं स्युः तर्हि पर्वतशिखरात् कूर्दनं क्रियताम्' इति…
  continue reading
 
'उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथै: । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगा: ।।' - एतत् सुभाषितं बहु प्रसिद्धम् । काष्ठविक्रेतुः देवदत्तस्य स्वकार्ये प्रवृत्तिः कथं जाता इति बोधयन्ती इयं कथा एतस्य सुभाषितस्य उदाहरणं भवितुम् अर्हति इति पश्यामः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रि…
  continue reading
 
Major Kavish Aggarwala is a retired Judge Advocate General officer from the Indian Army, with a distinguished 11-year career in the legal department. After his service, he transitioned into a legal practice, operating from his law chambers in Delhi. He has represented clients in various high-profile legal matters, including those in the Supreme Cou…
  continue reading
 
कश्चन अमेरिकीयः घण्टामात्रं कार्यं कृत्वा घण्टाद्वयस्य निमित्तं वेतनं प्राप्तुं नेच्छति । खिन्नः सः यदा मित्रं वदति तदा 'तद्विषये संस्था चिन्तयतु, शिष्टं समयं सुखेन यापयतु' इति वदति । तदा अमेरिकीयः वदति - ‘तेन संस्थायाः हानिः भवति । तेन देशस्य अर्थस्थितेः हानिः भवति । अतः देशस्य उन्नतिः साधनीया चेत् देशस्थैः सर्वैः कार्यसंस्कृतिविषये अवधानवद्भिः भव…
  continue reading
 
कदाचित् कश्चन राजा 'ईश्वरः कुत्र अस्ति' इत्यस्य प्रश्नस्य उत्तरं मासाभ्यन्तरे दातव्यम् इति सभायाम् आदिशति। चिन्ताक्रान्तेन मन्त्रिणा कश्चित् तीक्ष्णमतिः उत्तरं जानन् बालकः प्राप्तः । अनन्तरदिने राजस्थाने बालकः दर्शयति यत् कथं केवलेन दुग्धस्य आलोडनेन नवनीतं न भवति । आदौ क्षीरेण दधि करणीयम्, अनन्तरं दध्नः मथनात् नवनीतं प्राप्यते । तद्वदेव देवविषये अप…
  continue reading
 
कश्चित् वणिक् वाणिज्ये महतीं हानिम् अनुभूय भोजराजं प्रचुरं धनं ऋणरूपेण अयाचत "यावच्छक्यम् अस्मिन् जीवनकाले एव प्रत्यर्पयिष्यामि । यत् शिष्टं स्यात् तत् जन्मान्तरे प्रत्यर्पयिष्यामि" इति अवदत् च । गमनावसरे सायङ्काले सम्प्राप्ते कस्यचित् तिलकस्य गृहे न्यवसन्, रात्रौ बलीवर्दयोः सम्भाषणं श्रुतवान् । पशुभाषाभिज्ञः सः ज्ञातवान् यत् तौ द्वौ पूर्वस्मिन् जन…
  continue reading
 
कदाचित् ऊर्ध्वपुण्ड्रधारिणः जटाभिः शोभमानाः दशमिताः विरागिसाधवः चिटिकां विना रेल्यानम् आरूढवन्तः । सर्वेSपि साधवः कारागारं प्रति नेयाः इति चिटिकानिरीक्षदलेन आरक्षिणः आदिष्टाः यतः तेषु असाधवः अपि आसन् केचन । आरक्षकनिरीक्षकः सर्वान् साधून् आहूय - 'ये त्रिपुण्ड्रम् अपसारयेयुः, ये कण्ठे धृतां रुद्राक्षमालां भञ्जयेयुः च तान् कारागारतः मोचयिष्यामः' इति व…
  continue reading
 
कदाचित् बुद्धस्य कस्यचन शिष्यस्य वस्त्राणि सर्वथा जीर्णानि जातानि इति कारणतः नूतनवस्त्राणि दाप्यतामिति प्रार्थितवान् । तेन नूतनवस्त्राणि लब्धानि च । नूतनवस्त्रधारिणं शिष्यं कांश्चन प्रश्नान् पृच्छति बुद्धः । यथाक्रमम् उत्तरमपि प्राप्य - 'मम तत्त्वानाम् आन्तर्यं सम्यक् एव गृहीतम् अस्ति भवता' इत्युक्त्वा निर्गच्छति । किं तत् प्रश्नोत्तरम् जिज्ञासया क…
  continue reading
 
कदाचित् कैश्चित् बालकैः अल्लावुदीनस्य दीपः प्राप्तः । ततः निर्गताय अल्लावुदीनाय द्वितीयतृतीयबालकौ स्वस्वकार्याणि कर्तुं आदिष्टवन्तः । अल्लावुदीनेन चतुर्थे बालके पृष्टे - देशस्य कृते कष्टग्रस्तानां कृते च साहाय्यं करोतु इति उत्तरम् आगतम् । प्रथमः बालकः - मम बुद्धेः उपयोगं करोमि । स्वप्रयत्नेन एव कार्याणि करिष्यामि इत्युक्तवान्। तद्श्रुत्वा द्वितीयतृ…
  continue reading
 
ब्रह्मचैतन्यस्य श्रीगोन्दवलेकरमहाराजस्य वचनं कदापि वितथं न भवति इति जनानां विश्वासः आसीत् । एकदा, 'सत्वरं गोन्दवलेग्रामम् आगच्छतम्' इति सन्देशः पुण्यपत्तनस्थौ द्वौ अनुयायिनौ प्रति प्रेषितः । तौ प्रस्थितवन्तौ च । अनन्तरदिने एव 'रैण्डसाहेब' नाम्नः क्रूरकर्मणः आङ्ग्लेयस्य हननं पुण्यपत्तने जातम् । यदि तौ पुण्यपत्तने स्यातां तर्हि ताभ्यां महती विपत्तिः …
  continue reading
 
आक्रामकेण बाबरेण नाशितस्य राममन्दिरस्य कथा एषा । कश्चन प्रतापी सम्राट् विक्रमादित्यः कदाचित् रामजन्मभूमिम् अन्वेष्टुं सरयूनदीतटस्य समीपे स्थिते घोरे अरण्ये अन्वेषणं कारितवान् । किन्तु, न प्राप्तम् । विषादेन वृक्षस्य अधः उपविष्टवता राज्ञा प्रयागराजः दृष्टः । प्रयागराजस्य कथनानुगुणं यत्र क्षीरं स्रावन्ती धेनुः दृष्टा तत्र भूमेः खननेन एकं मन्दिरं दृष्…
  continue reading
 
मित्रयोः मध्ये स्नेहः कथं भवेत् इति अनया कथया ज्ञायते । कदाचित् रामश्यामयोः मध्ये कलहे जाते, रामः श्यामं ताडितवान् । तदा श्यामः सिकतासु लिखितवान् - ‘अद्य मम प्रियवयस्यः मां ताडितवान्' इति । अन्यस्मिन् दिने जले निम्मज्जन्तं श्यामं यदा रामः रक्षितवान्, तदा श्यामः शिलाखण्डेन लिखति - ‘अद्य निमज्जन्तं मां मम प्रियवयस्यः रक्षितवान्' इति । किमर्थम् एकवारं…
  continue reading
 
कदाचित् सिंहः सिंही च वने भ्रमन्तौ वृषभमेकं दृष्टवन्तौ । सिंहः तं हन्तुम् इच्छन्, गर्वेण सिंह्याः पुरतः स्वस्य अङ्गानां प्रशंसनं कृत्वा हठात् आक्रम्य वृषभस्य कण्ठं त्रोटयित्वा तदीयं मांसम् अखादत् । अनतिदूरे शृगाल्या सह स्थितः कश्चन शृगालः प्रवृत्तं सर्वं दृष्ट्वा स्वस्य शौर्यं प्रदर्शयितुम् यदा उद्युक्तः, तदा वृषभः तं पादेन बलात् प्रहृत्य शृङ्गाभ्य…
  continue reading
 
कर्मफलं कर्तारम् उपैतिकर्ममीमांसायां पारङ्गताः दश पण्डिताः यदा ग्रामान्तरं गन्तुं उद्युक्ताः तदा मार्गमध्ये अशनियुक्ता महावृष्टिः आरब्धा । जन्मान्तरे कृतं पापमेव अशनिवृष्ट्यादिपीडायाः कारणं इति विचिन्त्य - 'एकैकः मण्डपात् बहिः गत्वा तिष्ठेत् । यः महापापी स्यात् तस्य उपरि अशनिः पतत्येव' इति तैः निश्चितम् । नवानां जनानां पर्यायः समाप्तश्चेदपि अशनिपात…
  continue reading
 
सङ्गः अपि विनाशस्य कारणं भवितुम् अर्हति इति अनया कथया ज्ञायते । आसीत् एकस्मिन् वनप्रदेशे मानसोल्लासः नाम ऋषिः यः सत्यवचनः परमकारुणिकः च । तस्य आश्रमे पशवः सर्वे पारस्परिकं वैरभावं विस्मृत्य मोदेन क्रीडन्ति स्म । गच्छता कालेन तस्य आसुरीप्रवृत्तिः उद्भूता । कथं केनोपायेन च इन्द्रेण एतत् सम्पादितम् इति स्वारस्यकरीं कथां शृण्मः । (“केन्द्रीयसंस्कृतविश्…
  continue reading
 
अरिदमननामकस्य कस्यचन राज्ञः पञ्च पत्न्यः आसन् । तासु पञ्चम्यां तस्य अनादरः आसीत्। यतः सा निर्धनकुले जाता इति । कस्मिंश्चित् दिने मरणदण्डनं प्राप्तवान् चोरः एकं दिनं वा सन्तोषम् अनुभूय मरणं प्राप्नोतु इति राज्ञीभिः प्रार्थितम् । तथैव चतस्रः राज्ञ्यः सहस्राधिकं सुवर्णनाणकानि, उत्तमवस्त्राणि, उत्तम्भोजनादिकं चोराय अयच्छन् । किन्तु पञ्चमी राज्ञी सामान्…
  continue reading
 
बाल्यादारभ्यः वयं सर्वे विजयनगरसाम्राज्यस्य प्रसिद्धशासकस्य कृष्णदेवरायस्य, तस्य सभायाः सदस्यस्य तेनालिरामस्य च कथां शृण्वन्तः स्म । कदाचित् नगरस्य विहारसमये कञ्चन तक्षकं दृष्ट्वा महाराजस्य मनः खिन्नम् । अपरस्मिन् दिने तमेव तक्षकं दृष्ट्वा महाराजः मुदितः । कथम् एतत् इति पृष्टे तेनालिरामः यत् समाधानं वदति तत् कथां श्रुत्वा जानीयाम । (“केन्द्रीयसंस्क…
  continue reading
 
अमेरिकीयः धर्मगुरुः रेवरेण्ड् आवरः, पुणेनगरपरिसरे स्थितान् निर्धननिरक्षरान् क्रिस्तमतीयान् अकरोत् ।अनेन हिन्दुधर्मग्रन्थानाम् अध्ययनम् अकृत्वा, वास्तवं स्वरूपम् अनवगत्य सर्वदा हिन्दुधर्मस्य निन्दा कृता । कश्चन पण्डितः वदति यत् - 'आदौ वास्तवस्वरूपम् अवगन्तुं प्रयासः स्यात्, ततः एव अवगुणाः प्रकाशनीयाः' इति । ततः सः हिन्दुधर्मस्य अध्ययनं कृत्वा संस्कृ…
  continue reading
 
मिथिलाधिपति: जनकमहाराज: बहुधा व्यापृतः अपि तस्य गुरो: आश्रमम् आगत्य सश्रद्धम् उपदेशं श्रुत्वा अल्पमपि दर्पम् अप्रदर्शयन् यथाशक्ति गुरो: सेवां करोति स्म । अत: तस्मिन् गुरो: प्रीति: अधिका आसीत् । बहवः शिष्या: एतत् न असहन्त । एतत् जानन् ऋषिः, काञ्चन परीक्षां कृत्वा शिष्येभ्यः दर्शयति यत् किमर्थं महाराजे तस्य प्रीतिः अधिका अस्तीति। का सा परीक्षा इति कथ…
  continue reading
 
पूर्वस्मिन् जन्मनि उत्पन्नया प्रतीकारभावनया काचित् गर्भवती नर्तकी अग्रिमजन्मनि राजगृहे हारीतिः नामिका यक्षिणी भूत्वा नगरस्थान् बालान् चोरयित्वा खादनम् आरब्धवती । राजा तस्याः बन्धनं कारयित्वा कारागृहे स्थापितवान् । गौतमबुद्धेन तस्याः पुत्रः अपहरणीयः इति राजभटाः आदिष्टाः । तथा कृते हारीतिः पश्चात्तापं अनुभवन्ती पापात् कथं विमुक्तिः प्राप्तव्या इति प्…
  continue reading
 
Manu S. Pillai is a historian and the author of the critically acclaimed The Ivory Throne (2015), Rebel Sultans (2018), The Courtesan, the Mahatma and the Italian Brahmin (2019) and False Allies (2021).His latest book 'Gods Guns & Missionaries: The Making of the Modern Hindu Identity' is now out. Order your copy here: https://amzn.in/d/clf4b4c…
  continue reading
 
जीवने महान्तम् आघातं प्राप्तः कश्चन जनः, तस्य मित्रं च वाताटस्य उड्डयनं, सूत्रस्य खण्डनं, ततः वाताटस्य पतनं च दृष्टवन्तौ । विषादेन उपविष्टवन्तं मित्रं, सुहृत् जीवनतत्त्वम् उपदिशति - परिवारसंस्कृतादयः सूत्रम् इव व्यवहरन्तः जीवने स्थिरत्वं समतोलनं च ददाति । तस्मात् तेषां खण्डनं कदापि न करणीयम् । एतत् अनवगच्छन्तः वयं परिवारसंस्कृत्यादिकं विस्मृत्य धनै…
  continue reading
 
कश्चित् निर्दयः चोरः कस्मिंश्चित् गृहं प्रविश्य जागरितं बालकं रज्जुभिः बध्नाति । क्षणाभ्यन्तरे बालकः बन्धनात् आत्मानम् अमोचयत् । कीदृशः चोरः भवान् यः दृढं बन्धुम् अपि न शक्नोति, कथं बन्धनं करणीयमिति दर्शयिष्यामि इति वदन् बालकः चोरस्य पादौ हस्तौ ग्रीवां च बध्नाति । ग्रन्थीनां शिथीलीकरणे चोरः न शक्तः । रज्जुभिः बन्धनं कर्मभिः बन्धनमिव । कर्मणां बन्धन…
  continue reading
 
चतुरस्य कस्यचित् बालकस्य आलस्यकारणात् धनविद्यादीर्घायुष्यादीनि हस्तच्युतानि जातानि । कथं, कुत्र, किमर्थमिति ज्ञायते अनया कथया । तद्दिनस्य कार्याणि तद्दिने एव करणीयानि । श्वः अग्रे वा करिष्यामि इति चिन्तनमेव अनर्थस्य कारणम् इति अनया कथया ज्ञायते। (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A cle…
  continue reading
 
प्रतिदिनं कस्यचित् महात्मनः प्रवचनं बहुभ्यः वर्षेभ्यः श्रुण्वन् कश्चित् सज्जनः पुत्रेण हठात् मरणे प्राप्ते प्रवचनकाले न दृष्टः । महान्तं विषादम् अनुभवन् सः महात्मा यदा ग्रन्थपरिशीलने मग्नः आसीत्, तदा सः सज्जनः महात्मनः गृहमागतवान् । किमपि अजानन् इव व्यवहरन् महात्मा अनागमस्य कारणं पृच्छति । सज्जनः वदति - 'अतिथेः सम्प्रेषणव्यवस्थायां व्यग्रः आसम्' इत…
  continue reading
 
वस्तूनां क्रयणाय नगरं गच्छद्भ्यां धान्यवणिक्-चर्मवणिग्भ्यां मध्येमार्गं श्रमनिवारणाय यः आश्रमः प्रविष्टः तत्रत्यः संन्यासी धान्यवणिजे कुटीरस्य अन्तः, चर्मवणिजे बहिः च भोजनं दत्तवान् । प्रत्यागमनावसरे संन्यासी चर्मवणिजे अन्तः, धान्यवणिजे बहिः च भोजनं परिवेषितवान् । किमर्थम् एतादृशः व्यवहारः इति पृष्टे संन्यासी अवदत् - अन्तरङ्गस्वरूपभेदः एव सत्कारभेद…
  continue reading
 
कश्चन राजा स्वेन सम्पादितम् अपारम् ऐश्वर्यम् अतिथिभ्यः साभिमानं दर्शयति स्म । तं प्रति आगतवन्तं संन्यासिनं सम्पत्तिं दर्शयितुं यं दीपं राजा गृहीतवान् आसीत्, तं हठात् मुखवायुना संन्यासी निर्वापितवान् । तेन अन्धकारः प्रसृतः । अनन्तरं संन्यासी राजानं अबोधयत् - दीपप्रकाशस्य अभावे तु मौक्तिकादीनां महामूल्यता नास्ति । यथा दीपप्रकाशः तथा भवति आत्मविकासः ग…
  continue reading
 
Amit Sangwan is a Gurugram based marital consultant who is an expert at resolving family conflicts. He has 5 YouTube channels, the most popular ones being @SangoLifeSutras and @ClarityForYouth If you are interested in the 'Iconic Relationship Course' led by Amit Sangwan, please visit this link (https://yqthl.on-app.in/app/oc/591451.... This course …
  continue reading
 
स्वप्ने आगतायाः देव्याः वचनानुसारं मन्दिरनिर्माणकार्यम् आरब्धवान् कश्चित् धनिकः । देव्याः अनुग्रहेण प्राप्तः कश्चन उत्कृष्टः शिल्पी, श्रद्धया भक्त्या च यत् मूर्तिनिर्माणं कृतवान्, तस्याः मूर्तेः मुखे लघु कलङ्कः जातः इति कारणतः पुनः तेन अन्या मूर्तिः निर्मिता । सूक्ष्मदर्शानात् अपि कोSपि कलङ्कः न दृश्यते, किमर्थं नूतना मूर्तिः निर्मिता इति धनिकेन पृ…
  continue reading
 
Loading …

त्वरित संदर्भ मार्गदर्शिका

अन्वेषण करते समय इस शो को सुनें
प्ले