सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः ...
…
continue reading
It is about social life .Include stories which give moral values
…
continue reading
1
Podcast in Hindi on Kids Moral Stories & Indian History, Hindi Kahaniya, Hindi Story, हिंदी कहानियाँ
Kulbeli
Kulbeli Podcast Kids Moral stories! We bring you weekly episodes of inspiring and informative stories from popular collections such as Panchtantra, Akbar Birbal, Gone Jha, Lok Katha, Fairy Tales, Tenalirama, Sheikhchilli, Motivational Stories in Hindi, Stories for all ages, Hindi Kahani, Kahaniyan, and Indian History. Our stories are designed for listeners of all ages, and we offer stories that are both entertaining and educational. The stories we feature are perfect for bedtime listening. S ...
…
continue reading
Become a Paid Subscriber: https://podcasters.spotify.com/pod/show/kahaniwithprachi/subscribe Fun, motivational, life inspirations, classics and hidden gems of short Hindi stories for ages 1-100. Follow Kahani on instagram @kahani.podcast Website: https://wwww.prachigangwal.com
…
continue reading
Hello everyone. I am your narrator Meenu Rani Jain. Welcome to my podcast 'शिक्षाप्रद कहानियाँ' and here I will be telling you educational stories where each story will end with a Moral. Thank You. नमस्ते, मैं आपकी कथावाचक मीनू रानी जैन हूं। मेरे पॉडकास्ट शिक्षाप्रद कहानियाँ में आपका स्वागत है और यहाँ मैं आपको ऐसी कहानियाँ सुनआऊंगी जहाँ प्रत्येक कहानी एक शिक्षा के साथ समाप्त होगी। धन्यवाद।
…
continue reading
जैसा कि हम सब जानते हैं यह दुनिया अलौकिकता से परिपूर्ण है, जो प्रत्यक्ष रूप से दिखाई नहीं देती। परंतु उस अलौकिक ज्योति को कल्पनाओं द्वारा महसूस किया जा सकता है, जो सिर्फ कहानी द्वारा ही संभव है, और Priyanshi-Thoughts ऐसी ही दुनिया है जो आपको काल्पनिक दुनिया में विलीन कर देगी।
…
continue reading
रोमहर्षनामा कश्चन वणिक् विदेशगमनात् पूर्वं स्वधनं रक्षितुं मित्रं लोभनाथं याचितवान् । दीर्घकालानन्तरं रोमहर्षः प्रत्यागत्य स्वधनं प्रत्यर्पितुम् अवदत् किन्तु धनं बहोः कालात् पूर्वमेव प्रत्यर्पितवान् इति असत्यम् अवदत् लोभनाथः । ततः ताभ्यां न्यायालयं प्रति गतम् । तत्र कस्यचन आसन्दस्य दक्षिणभागे प्रतिनिबद्धः तीक्ष्णः खड्गः अपराधिनः सत्यतायाः परीक्षां …
…
continue reading
कश्चन पिता पुत्रस्य अध्ययनाय उत्तमं प्रयासं कृतवान् । पुत्रः अपि उत्तमम् अध्ययनं कृत्वा उद्योगे सफलः अभवत् । विवाहः अपि सम्पन्नः । सः संस्थायाः प्रमुखः अपि अभवत् । कदाचित् पिता कार्यालयं गत्वा पुत्रं दृष्ट्वा सन्तुष्टः अभवत्, प्रश्नम् अपृच्छत् 'एतस्मिन् प्रपञ्चे शक्तिशाली जनः कः?'। पुत्रः स्वम् एव शक्तिशालिनम् अवदत्, यत् श्रुत्वा पितुः मुखं म्लानं …
…
continue reading
कस्मिंश्चित् गुरुकुले शिक्षकस्य आवश्यकता आसीत् । तदर्थं त्रयः अभ्यर्थिनः उपस्थिताः । आचार्यः जवनिकायाः पृष्ठतः स्थित्वा प्रश्नं कृतवान् "ज्ञानं प्रमुखम् उत छात्रप्रीतिः?" प्रथमः ज्ञानस्य प्राधान्यम् उक्तवान्, द्वितीयः उभयोः महत्त्वम् अङ्गीकृतवान् । तृतीयः छात्रप्रीतिः प्रमुखा इति मत्वा, ज्ञानं प्रयत्नेन अपि वर्धयितुं शक्यम् इति अवदत् । गुरुणा पुनः …
…
continue reading
कदाचित् मालवादेशस्य नृपतिः सुबेदारः मल्हाररावहोलकरः, पट्टमहिषी गौतमबायी, तनयः खण्डेरावहोलकरः च 'चौण्डि' नामके ग्रामे प्रवासरतः आसन् । तदा कस्यचन देवालयस्य कलशस्थापनार्थं राज्ञी समाहूता । यदा पूजाकार्याणि आरब्धानि तदा सहसा तत्र जलोद्भवः अभवत् । यदा राज्ञी अर्चकैः सूचिते गर्ते पवित्रां शिलां स्थापयितुम् ऐच्छत् तदा कस्याश्चित् बालिकायाः ध्वनिः श्रुतः …
…
continue reading
कश्चन महाधनिकः कस्यचन रत्नविक्रेतुः आपणं गत्वा अधिकमूल्ययुक्तानि रत्नानि दर्शयितुम् उक्तवान् । रत्नविक्रेता दर्शितवान् । इतोSपि अमूल्यानि रत्नानि दर्शयताम् इति पृष्टे विक्रेता अवदत् यत् अन्यस्मात् प्रकोष्ठात् आनयामि इति । यदा अन्यस्मिन् प्रकोष्ठे विक्रेता प्रविष्टः, सुप्तः पिता दृष्टः तेन । सुप्तः पिता यावत् न जागृयाद् तावत् कवाटोद्घाटनं कर्तुं न …
…
continue reading
कदाचित् कश्चन महात्मा कस्यचन निर्धनगृहस्य पुरतः स्थित्वा भिक्षां याचितवान् । तदा तस्मिन् गृहे काचित् बालिका अवदत् 'गृहे दानयोग्यं किमपि नास्ति' इति । महात्मा अवदत् 'दानक्रिया एव मुख्या । मूल्यं वस्तुनि नास्ति, भावे एव अस्ति । गृहस्य पुरतः स्थितां धूलिमपि दातुं शक्यते' इति । बालिका श्रद्धया धूलिं गृहीत्वा महात्मनः पात्रे न्यवेशयत् । एतत् दृष्ट्वा शि…
…
continue reading
कश्चन महात्मा आश्रमम् आगतान् भक्तान् स्वागतीकृत्य भोजनाय निमन्त्रितवान् । भोजनसमये सः महात्मा अवदत् 'मानवस्य आहारसेवनक्रमः पशूनामिव स्यात् । पशवः केवलं बुभुक्षायां सत्याम् एव खादन्ति । भगवता विहितम् आहारम् एव सेवन्ते । मानवः तु बुभुक्षायाम् अजातायाम् अपि खादति, विवाहादौ मितम् अतिक्रम्य भोजनं करोति, स्वस्य आरोग्यं नाशयति । स्वास्थ्यरक्षणं मानवाधीनम्…
…
continue reading
कदाचित् कश्चन धनिकः कस्यचन उत्कृष्टकलाकारस्य समीपं गत्वा स्वस्य चित्रं लेखयितुम् प्रार्थितवान् । चित्रकारेण चित्रं लिखितं, किन्तु धनिकः सादृश्यरहितताम् आरोप्य चित्रं न क्रीतवान् । चित्रकारेण द्वितीयम् उत्कृष्टं चित्रम् अपि लिखितम् । तदपि चित्रं धनिकः निराकृतवान् दोषान् प्रदर्श्य । खिन्नः चित्रकारः मित्रेण सह विचार्य धनिकस्य गृहं गत्वा अवदत् 'यतो हि…
…
continue reading
राज्यस्य उत्तराधिकारिणं प्राप्तुं योग्यतापरीक्षार्थं कश्चन राजा तस्य पुत्रं कस्यचन महात्मनः समीपं प्रेषयति । समग्रं दिनम् अरण्ये उषित्वा राजकुमारः अनुभवम् अकथयत् - 'गजानां घीङ्कार श्रुतः, महावृक्षस्य पतनं दृष्टं, मेघघर्जनं श्रुतं, तडितः दृष्टाः च' इति । अग्रिमवर्षे आगच्छ इति महात्मा वदति । अनन्तरवर्षे राजकुमारः वदति 'मूषकं गिलन् सर्पः दृष्टः, मूषकस…
…
continue reading
एषा कथा पञ्चदशे अथवा षोडशे शतके घटिता, यत्र श्रीकृष्णचैतन्यनामकः कश्चन मेधावी न्यायशास्त्रविद् भागवतभक्तः वैष्णवाचार्यः अभवत् । सः चैतन्यमहाप्रभुः इत्यपि प्रसिद्धः । तस्मिन्काले वासुदेवनामकः कश्चन कृष्णभक्तः कुष्ठरोगेण पीडितः आसीत् । एकदा चैतन्यमहाप्रभुः दक्षिणभारतयात्रां कुर्वन् कूर्मनामकस्य ब्राह्मणस्य गृहे वासं कृतवान् । श्रुतवार्तः वासुदेवः परि…
…
continue reading
काचित् माता पनसफलं कर्तयित्वा फलदलानि पञ्च द्रोणेषु स्थापयति । तस्याः पुत्रः अचिन्तयत् यत् माता मह्यम् एकं द्रोणं ददाति इति । किन्तु एकं द्रोणं भगवते समर्प्य आगच्छ इति वदति माता । अवशिष्टेषु द्रोणत्रयं ज्येष्ठपितृव्यायै कनिष्ठपितृव्यायै प्रतिवेशिन्यै वृद्धायै च दत्त्वा आगच्छ इति वदति । म्लानमुखः बालकः यदा प्रत्यागच्छति तदा अन्तिमद्रोणतः एकं फलदलं …
…
continue reading
मनुष्येषु विभिन्नता भवत्येव । केषुचित् दोषरूपाणि छिद्राणि भवन्ति । तेषां छिद्राणां द्वारा दुष्प्रवृत्तयः तान् प्रविशन्ति । ततः तेषां पतनं भवति । ये दोषरहिताः स्युः, येषु दुष्प्रवृत्तीनां प्रवेशाय अवसरः न स्यात्, ते कामपि हानिम् अप्राप्नुवन्तः उत्तमं जीवनं यापयन्ति । एकैकस्यापि जनस्य आन्तरस्वरूपं विभिन्नं भवति इत्यतः तत्तस्य जीवनम् अपि विभिन्नं भवति…
…
continue reading
कदाचित् वङ्गप्रदेशात् कालिचरणनामकः कश्चन भगवद्भक्तः चम्पानगर्यां स्थितं विष्णुदेवालयम् आगतः । महत्याः वृष्ट्याः उपशान्तेः अनन्तरं सः भक्त्या कर्दमपूर्णे मार्गे नृत्यं कुर्वन् अग्रे अगच्छत् । तदवसरे तस्य पादक्षेपेण उत्थितः कर्दमः कस्याश्चित् महिलायाः शाटिकां पतितः इति कारणेन तस्याः पतिः क्रोधेन दुर्वचनानि वदन् कालिचरणं प्रहृतवान् । कालिचरणः कारणम् अ…
…
continue reading
कदाचित् डा.रघुवीरः प्रवासावरे एकस्मिन् फ्रेञ्च्-जनस्य गृहे अतिथित्वेन वासम् अकरोत् । तदवसरे भारतात् आगतम् आङ्ग्लभाषया लिखितं पत्रं दृष्ट्वा गृहस्वामिनः पुत्री पृच्छति 'किमर्थं आङ्ग्लभाषया व्यवह्रियते ? स्वीया लिपिः भाषा वा नास्ति वा?’ इति । एतां घटनां ज्ञातवत्या बालिकायाः मात्रा उक्तम् - 'देशाभिमानः भाषाभिमानः च यस्य न स्यात् तं बर्बरं भावयामः वयम्…
…
continue reading
कस्याञ्चित् कक्ष्यायां कश्चन अध्यापकः छात्रान् अपृच्छत् 'वृक्षस्य एकैकः भागः अपि भवति महते प्रयोजनाय । भवत्सु कः कीदृशः वृक्षभागः भवितुम् इच्छति ?’ इति । तदा एकैकः छात्रः अपि तस्य इच्छानुगुणं कीदृशः भागः भवितुम् इच्छति इति । तस्य भागस्य प्रयोजनं किम् इत्यपि वदति । कश्चन पर्णं, कश्चन पुष्पं, कश्चन फलं, कश्चन शाखा भवितुम् इच्छामि इति वदति । कक्ष्याय…
…
continue reading
मदनमोहनमालवीयः विश्वविद्यालयस्य संस्थापनाय कृतनिश्चयः सन् धनसङ्ग्रहाय सर्वत्र भ्रमित्वा कदाचित् कोलकातापत्तने कस्य श्रेष्ठिनः गृहं प्राप्तवान् । श्रेष्ठिनः बालेन काचित् अग्निशलाका प्रज्वालिता । विना कारणं अग्निशलाका व्यर्थीकृता इति कारणतः असः श्रेष्ठी बालस्य मुखे चपेटिकां दत्तवान् । शलाकामात्राय बालं ताडयितु उद्यतात् एतस्मात् दानस्य प्राप्त्याशा व्…
…
continue reading
कदाचित् भगवान् बुद्धः प्रवचनावसरे 'अयि भक्ताः! समयः अतिक्रामति, जागृत' इति अवदत् । तदा कयाचित् नर्तक्या कुत्रचित् नर्तनं करणीयम् इति स्मृतम् । केनचित् लुण्ठाकेन लुण्ठनं करणीयम् इति स्मृतम् । केनचित् वृद्धेन इतः परं वा पुण्यं सम्पादनीयम् इति स्मृतम् । यतः आजीवनं धनार्जनमात्रमेव चिन्तितम् आसीत् । प्रवचनावसरे केवलम् एकं वाक्यम् उक्तं बुद्धेन किन्तु एक…
…
continue reading
कदाचित् कश्चन शिष्यः मनसः शान्तिप्राप्तिमार्गं गुरुः पृच्छति । तदा सः गजभृङ्गयोः कथां श्रावयित्वा वदति 'अस्मान् परितः यद्यत् प्रवर्तेत तत्र अस्माकं दृष्टिः तु भवेत् । किन्तु ते अंशाः अस्माकं मनसि चाञ्चल्यं न जनयेयुः । यत् क्रियते तत्र मनसः पूर्णमग्नता स्यात् । अस्माकं निर्णयः बाह्यांशप्रभावयुक्तः न भवेत् । अयमेव शान्तचित्ततायाः मार्गः' इति । (“केन…
…
continue reading
कदाचित् गुरुशिष्याणां मध्ये 'वचनानि कीदृशानि भवेयुः' इति सम्भाषणं प्रचलति । तदा गुरुः वदति 'यत् वचनं कमपि न व्यथयेत्, यतः श्रोतॄणां मनः विकसेत्, यत् वचनं स्नेहादिसद्भाववृद्ध्यै स्यात्, यस्य श्रवणात् सद्व्यक्तित्वम् अभिव्यज्येत तदेव वचनं नाम । तादृशानि एव वचनानि यस्य मुखात् सर्वदा निर्गच्छेयुः सः एव सम्भाषणं जानाति इत्यर्थः' । पुनः सः वायोः, आतपस्य,…
…
continue reading
कश्चित् तरुणः आत्मानं शिष्यत्वेन स्वीकर्तुम् आचार्यं निवेदयति । तस्य योग्यतासामर्थ्यादिकं बहुधा परीक्ष्य सः उत्तीर्णः इति वदन् अपि एकसप्ताहानन्तरं निर्णयं श्रावयिष्यामि इति आचार्यः अवदत् । अनन्तरदिने एव आचार्यः कञ्चित् धनिकम् आहूय तरुणम् उन्नतस्थाने अधिकं वेतनम् दत्त्वा नियोजय इति अवदत् । तद्वदेव सः धनिकः अकरोत् । सप्ताहानन्तरं तं तरुणम् आहूय 'तव श…
…
continue reading
कदाचित् श्रीकृष्णः विविधैः सुन्दरैः आभरणैः आत्मानम् अलङ्कुर्वन् आसीत् । यः कदापि बाह्यालङ्कारे आसक्तिं न दर्शयति सः अद्य कथं बाह्यालङ्कारे विशेषास्थावान् इति चिन्तयन् आप्तः सेवकः कारणं पृच्छति । तदा कृष्णः वदति 'दुर्योधनं द्रष्टुं गच्छामि । बाह्याडम्बरदर्शने तस्य विशेषासक्तिः । अतः तं प्रभावयितुम् अयं वेशः' इति । पुनः सेवकः वदति यत् 'भवता किमर्थं त…
…
continue reading
गोवल्लभनामकः कश्चन महाधनिकः भोगजीवनं यापयन् वार्धक्ये रोगग्रस्तः जातः । कदाचित् चिन्तामग्नेन तेन किञ्चित् मधुरं गीतं श्रुतम् । तेन आनन्दः प्राप्तः गोवल्लभः तं चर्मकारम् आनाय्य किञ्चित् धनं दत्त्वा श्वः अपि आगत्य एवम् एव एकं गीतं श्रावय इति अवदत् । किन्तु अनन्तरदिने सः चर्मकारः आगत्य धनं प्रत्यर्प्य 'धनस्य रक्षणविषये चिन्तां प्राप्तवता मया भगवतः स्म…
…
continue reading
कदाचित् मार्गे स्थितेन केनचित् खिन्नेन भिक्षुकेन स्वर्णरथेन सह अकाशात् आगतः देवपुरुषः दृष्टः । भिक्षुकः तं दृष्ट्वा हृष्टः सन् चिन्तितवान् यत् अद्य मम दरिद्रता समाप्ता भविष्यति इति । किन्तु देवः स्वयं भिक्षुकात् भिक्षां याचितवान्, येन सः विस्मितः अभवत् । तिरस्कारभावेन सः केवलम् एकं तण्डुलकणं देवाय दत्तवान् । देवः तं स्वीकृत्य अन्तर्हितः अभवत् । रात…
…
continue reading
कस्यचन आचार्यस्य उभौ शिष्यौ आस्ताम् । तयोः एकः अध्ययने विशेषतया आसक्तः, अपरः च मन्दप्रवृत्तिः । कदाचित् अपरः गुरुं पृच्छति यत् किमर्थं प्रथमम् एव आधिक्येन पाठयति इति । तदा गुरुः बोधकथां श्रावयित्वा दर्शयति यत् प्रथमस्य ज्ञानप्राप्तीच्छा तीव्रा अस्ति अतः सः परिश्रमं करोति, परिश्रमानुगुणं फलं प्राप्नोति च । अपरस्य ज्ञानप्राप्तीच्छा तु दुर्बला अस्ति ।…
…
continue reading
राजा मानसिंहः एकदा वेषान्तरं धृत्वा कवेः कुम्भनदासस्य गृहम् अगच्छत् । तदवसरे प्रस्थानाय उद्यतः कविः तिलकं धर्तुं दर्पणम् आनेतुं पुत्रीम् अवदत् । अनवधानात् दर्पणः हस्तात् च्युतः सन् भग्नः जातः । तद् दृष्ट्वा कविः एकेन विशालमुखेन पात्रेण जलम् अनेतुम् उक्त्वा जले स्वमुखं दृष्ट्वा तिलकं धृत्वा प्रकोष्ठात् बहिः अगच्छत् । वेषान्तरं धृतवान् राजा एतत्सर्वं…
…
continue reading
सिक्खानां गुरोः गोविन्दसिंहस्य चत्वारः पुत्राः मोघलैः सह प्रवृत्ते युद्धे वीरमरणं प्राप्तवन्तः आसन् । एतत् वचनं श्रुत्वा पत्नी पुत्रवियोगेन नितरां दुःखसन्तप्ता भूत्वा उच्चैः रोदनम् अकरोत् । तदा गोविन्दसिंहः अवदत् ये धर्मयुद्धे वीरगतिं प्राप्नुवन्ति ते अमृतपुत्राः । तस्य विषये गर्वं भवतु । पुत्रवियोगं प्राप्तवन्तः जन्मदातारः सान्त्वनीयाः अस्माभिः । …
…
continue reading
अष्टादशवर्षपूर्वं स्यानन्दपुरे पद्मतीर्थनामा तडागः निर्जलः जातः । कथञ्चित् अयं तडागः जलपूर्णः स्यात् इति जनाः अचिन्तयन् । तदा तस्य कार्यार्थं डा. साम्बशिवनामकः कश्चन सज्जनः जनान् प्रेरितवान् । साम्बशिवस्य न केवलं वैद्यकीये विषये, अपि तु वेदोपनिषत्सु अपि अध्ययनम् आसीत् । अग्रिमदिने सर्वे ब्राह्मे मुहूर्ते अनशनपूर्वकान् आर्द्रवस्त्रान् जनान् वरुणमन्त…
…
continue reading
कश्चित् राजा राजधान्याम् एकं भव्यं मन्दिरं निर्मातुं सङ्कल्पं कृतवान् । वृद्धः आस्थानशिल्पी राजानं यौवनशिल्पिनः चयनाय उपदिष्टवान् । राजा स्पर्धाम् आयोज्य उत्कृष्टं शिल्पं निर्मातुं शिल्पिनः आमन्त्रितवान् । तेषु शिवमूर्ति-धनपालाभ्यां निर्मितं शिल्पम् उत्कृष्टम् इति तु घोषितम्, किन्तु तयोः नाम न प्रकाशितम् । एतत् दृष्ट्वा धनपालः खिन्नः जातः, रात्रौ र…
…
continue reading
कदाचित् राष्ट्रपतिना अब्दुलकलाममहोदयेन कस्मिंश्चित् समारम्भे अध्यक्षस्थानं वोढव्यम् आसीत् । तस्य भाषणस्य अनुवादः गुरुराजकरजगिवर्यस्य । तेन रुदन्ती लघुबालिका दृष्टा । कारणे पृष्टे तस्याः पितरौ उक्तवन्तौ यत् 'कलाममहोदयेन भाषणं कर्तुम् एतस्याः इच्छा अस्ति' इति । अध्यक्षभाषणसमाप्तेः अनन्तरं गुरुराजवर्यः कलाममहोदयं लघुबालिकायाः इच्छाम् अवदत् । अनुक्षणमे…
…
continue reading
पुरा ऋचीकनामा कश्चन ऋषिः, गाधिनाम्नः राज्ञः पुत्रीं सत्यवतीं परिणेतुम् ऐच्छन् माहाराजम् उपसर्प्य स्वस्य इङ्गितं निवेदितवान् । मुनये पुत्रीं दातुं राजा तु न इष्टवान् । बाह्यावलोकनतः अयं मुनिः सामान्यः इति विगणय्य राजा अस्मै साधारणं कार्यं ददामि इति अचिन्तयत् । ततः अवदत् यत् 'अस्माकं कुले विशिष्टा वरपरीक्षा अस्ति । यः एकतः श्यामकर्णान् सहस्रम् अश्वान…
…
continue reading
राजसूययगानन्तरं महता दानेन धर्मराजस्य मनसि अहं महादाता अस्मि इति भावः आगतः। एतत् अवगतेन श्रीकृष्णेन धर्मराजस्य एतं भावम् अपनेतुम् इच्छता सः बलिचक्रिवर्तिनः आस्थानं प्रति नीतः । कृष्णं दृष्ट्वा हर्षेण स्वागतवचनानि उक्त्वा बलिः अपृच्छत् 'आगमनावसरे भवता किमर्थम् अयम् अयोग्यः राजा अपि आनीतः' इति । कृष्णः 'एषः महान् दानशूरः अस्ति' इति यदा प्रत्युत्तरति …
…
continue reading
कदाचित् भारतीयसेनाधिकारिणः तत्पत्न्यः च रेल्स्थानकं गतवन्तः आसन् । तदवसरे केचन दुष्टाः माहिलाः बहुधा अपीडयन् । ते अधिकारिणः दुष्टान् बद्ध्वा युतकादिकम् अपनीय अन्तर्वस्त्रमात्रतया मुख्यमार्गे तेषां शोभायात्रां कारितवन्तः । तेषां दुष्टानां नायकः आसीत् मुख्यमन्त्रिणः पुत्रः एव । अतः यदा मुख्यमन्त्री सेनाशिबिरं प्रति अगच्छत् तदा तस्य प्रवेशाय अनुमतिः ए…
…
continue reading
काचित् वृद्धा भिक्षया यत् प्राप्यते तत् नारायणाय नैवेद्यत्वेन समर्प्य एव स्वयं खादति स्म । कदाचित् प्राप्तचणकान् जले संस्थाप्य मृदूकृत्य वस्त्रेण बद्ध्वा शयनम् अकरोत् । तस्यां रात्रौ चोराः आभरणग्रन्थिः इति मत्वा तं चणकग्रन्थिम् चोरयित्वा सान्दीपनिमुने आश्रमे नीलीय अतिष्ठन् । चणकग्रन्थिम् अप्राप्य दुःखिता वृद्धा शापं दत्तवती यत् ये तान् चणकान् खादेय…
…
continue reading
कश्चन संन्यासी प्रयाणेन श्रान्तः सन् कस्यचित् गृहस्य पुरतः स्थित्वा भोजनं याचितवान् । गृहस्वामी सादरं तम् अन्तः नीत्वा भोजनं प्रदत्तवान् । किञ्चित्कालं विश्रान्तिसुखम् अनुभवन् प्रस्थानसमये संन्यासी गृहस्वामिने धनं दातुम् उद्युक्तः । किन्तु गृहस्वामी धनप्राप्तीच्छया न, अपि तु बुभुक्षिताय अन्नदानं पुण्यम् इत्यतः भोजनं दत्तम् इति अवदत् । संन्यासी उक्त…
…
continue reading
षोडशे शतके केरले पून्ताननामा कश्चन गुरुवायूरुपुरेशभक्तः कदाचित् कोट्टियूरस्थे शिवमन्दिरे भागवतपारायणम् आरब्धवान् । तत्र कृष्णरुक्मिणीसंवादस्य कथां विवृत्य एकं पुटचिह्नं संस्थाप्य मन्दिरात् निर्गतः । परन्तु आश्चर्यं नाम अग्रिमे दिने तस्य अध्यायस्य आरम्भे एव तत् पुटचिह्नं दृष्टम् । एवम् अवशिष्टेषु दिनेषु अपि तेन सः एव कथाभागः पुनः पुनः पठितः । अन्तिम…
…
continue reading
कदाचित् कश्चन गुरुः लवणेन वस्त्रेण शिलया च निर्मिताः तिस्रः प्रतिमाः जले निमज्जयन् तासां तत्त्वं बोधयति । शिलानिर्मिता प्रतिमा जले निमज्ज्य अपि अल्पमपि विकारं न प्राप्नोत् । केचन शिलाप्रतिमा इव । जलं ज्ञानम् इव । केचन ज्ञाने निमज्ज्य अपि स्वस्मिन् किमपि परिवर्तनं न प्राप्नुवन्ति अहङ्कारादिकारणतः । वस्त्रनिर्मिता प्रतिमा तु जलं स्वस्य अन्तः स्वीकरोत…
…
continue reading
कश्चन महात्मा ध्यानविषये बोधयन् मण्डूकस्य दृष्टान्तं वदति — 'मण्डूकेन इव तदेकनिष्ठया ध्यानं करणीयम् । मण्डूकः क्षुद्रजीवी अपि श्रद्धया एकनिष्ठया ध्यानं करोति । सः वृष्टिं प्रार्थयमानः भूमेः अन्तः स्थित्वा प्रतीक्षां करोति । तस्य अपेक्षां निसर्गः पूरयति । श्रद्धया सहनया च अपेक्षितस्य तत्त्वस्य प्रतीक्षणम् एव ध्यानं नाम । तादृशः स्वभावः मानवेषु स्यात…
…
continue reading
शङ्करशाहः गोण्डवंशीयः राष्ट्रप्रेमी राजा आसीत्, यः कवित्वेन अपि प्रसिद्धः । तेन रचितानि देशभक्तिपराणि गीतानि जनाः सदा गायन्ति स्म । जबलपुरप्रदेशे आङ्ग्लैः संस्थानाधिपाः भूस्वामिनः च जनाः पीडिताः आसन्, अतः आङ्ग्लशासनविषये असन्तोषः उत्पन्नः । शङ्करशाहः तैः सह सम्पर्कं कृत्वा सर्वत्र युगपत् शासनविरोधस्य योजनाम् अकरोत् । सभायां तस्य पुत्रः रघुनाथशाहः अ…
…
continue reading
तमिळुनाडुदेशीयः विश्वनाथदासः स्वीयैः देशभक्तिगीतैः, नाटकैः, अभिनयैः च देशभक्तिम् जागरयति स्म । नाटकेषु 'वल्लीविवाहः' इति नाटके आङ्ग्लेयशासनं लक्षीकृत्य दासवर्यः गीतं गायति स्म येन कारणेन षट् मासान् संवत्सरान् वा यावत् कारागारवासः भवति स्म । कदाचित् दासवर्येण रङ्गं न प्रवेष्टव्यम् इति आङ्ग्लशासनेन आज्ञा कृता । तथापि वीरपुरुषः दासवर्यः रङ्गे निर्भयम्…
…
continue reading
आ पञ्चदशभ्यः दिनेभ्यः मन्दिरम् आगत्य देवस्य पुरतः स्थित्वा वर्णमालां जपन्तीं बालिकां कश्चन भक्तः उपसर्प्य अपृच्छत् 'किमर्थं वर्णमालाजपं कृत्वा देवं प्रणम्य निर्गच्छसि' इति । तदा सा बालिका अवदत् यत् 'वर्णमाला एव मम स्तोत्रम् । अपि च मातामही कथयति यत् सर्वाणि स्तोत्राणि प्राथनाः च एतैः वर्णैः एव निर्मितानि भवन्ति । अतः भगवतः पुरतः श्रद्धया पठ' इति । …
…
continue reading
कदाचित् विश्वामित्रशिष्यः गालवः गरुडश्च गुरुदक्षिणसङ्ग्रहणार्थं प्रपञ्चपर्यटनम् आरब्धवन्तौ । तदवसरे विश्रान्त्यर्थं वृषभपर्वते स्थितवन्तौ । वृषभपर्वतस्थायां गुहायां वसत्या शाण्डिल्यमहर्षिपुत्र्या महातपस्विन्या स्वयम्प्रभया तौ सत्कृतौ । प्रातः उत्थानसमये गरुडस्य पक्षौ दग्धौ आस्ताम् । तदा गालवः गरुडं पृष्टवान् यत् तेन किमपि अनुचितं चिन्तनं कृतं वा इत…
…
continue reading
कश्चन धनिकः बदरीकेदारनाथादिदर्शनार्थं गतवान् । तत्र काचन बालिका धनिकम् उपसर्प्य एकं रूप्यकम् अयाचत । सः कोषात् निष्कास्य अञ्जलिमितानि रूप्यकाणि बालैकायै अयच्छत् । एतावन्ति नाणकानि प्राप्य सा बालिका यद्यपि सन्तुष्टा जाता तथापि अनतिदूरे क्रीडतः निर्धनबालकान् दृष्ट्वा तस्याः सन्तोषः विलुप्तः । सा तेषां दिशि गत्वा एकैकस्मै अपि बालकाय एकैकं नाणकम् अयच्छ…
…
continue reading
भगवान् श्रीकृष्णः तदीयवेणुना एव सुप्रसिद्धः इति वयं जानीमः । सः वेणुहस्तः एव दृश्यते सर्वदा । कृष्णः गोपकुले प्रवृद्धः इत्यतः सहजतया तस्य हस्ते वेणुः अतिष्ठत् । परं, वेणुवादने गोपालेषु कथम् आसक्तिः उत्पन्ना , कथं गोपालकाः एव प्रथमवेणुवादकाः अभवन्, तस्य वाद्यस्य मूलं किम् इत्येते विषयाः अस्यां कथायाम् उक्ताः सन्ति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्…
…
continue reading
कदाचित् कश्चन ज्ञानी स्वकीयम् अपूर्वं ज्ञानं कस्मैचिदपि दातुं सज्जः अभवत् । यः इच्छति सः चतुस्सहस्रं सुवर्णनाणकानि दत्त्वा स्वीकर्तुं शक्नोति इति सः उद्घोषितवान् । तत् श्रुत्वा कश्चन राजा तं ज्ञानिनं स्वस्य आस्थानम् आनाय्य सत्कृत्य च चतुस्सहस्रं सुवर्णनाणकानि दत्त्वा अपूर्वं ज्ञानं दातुं निवेदितवान् । तदा ज्ञानी जीवनानुभवात् प्राप्तानि चत्वारि सूत्…
…
continue reading
श्रीरामचन्द्रस्य वनवासकाले प्रवृत्ता घटना एषा । कदाचित् श्रीरामः कुटिरात् बहिः गतवान् आसीत् । लक्ष्मणः वृक्षस्य अधः उपविश्य श्रीरामस्य विषये चिन्तामग्नः आसीत् । तदा निद्रया आवृतया सीतया शिरः स्थापयितुम् उपधानत्वेन किमपि अनुपलब्धे, सा लक्ष्मणस्य अङ्के शिरः स्थापयित्वा शयितवती । प्रत्यागतेन श्रीरामेण अन्तर्ज्ञानेन वस्तुस्थितौ अवगतायाम् अपि लक्ष्मणस्य…
…
continue reading
जनाः बाह्यशरीरस्य शोभावर्धनाय प्रभूतस्य धनस्य व्ययं कुर्वन्ति । किन्तु, अन्तः स्थितम् आत्मानं कदापि न अवलोकयन्ति । अतः एव जनानां मध्ये मानवता न्यूनीभवति, चेतना म्रियते च । दुःखानि कष्टानि च वर्धन्ते । इयं कथा तादृशमेव किञ्चित् बोधयति, आत्मावलोकनस्य अपि एकम् अवसरं कल्पयति च । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध…
…
continue reading
कृष्णावतारे कृष्णः सर्वदा स्वशिरसि पिच्छं किमर्थं धृतवान् इति ज्ञायते वा ? कदाचित् वनवासकाले सीता पिपासया बाध्यमाना आसीत् । तदा कश्चित् मयूरः आगत्य ततः अनतिदूरे कश्चन जलाशयः अस्ति इति उक्त्वा रामादयः यथा मार्गं जानीयुः तथा स्वस्य पिच्छं तत्र तत्र पातयन् अग्रे अगच्छत् । पिच्छमार्गम् अनुसरन्तः रामादयः यदा जलाशयं प्राप्तवन्तः तदा तत्र मरणदशां प्राप्तं…
…
continue reading
कदाचित् मार्गे गच्छता गुरुणा कस्यचित् महावृक्षस्य मनोवृत्तिं ज्ञात्वा 'तथास्तु' इति उक्तम् । सा मनोवृत्तिः का इति शिष्येण पृष्टे, गुरुः अवदत् 'चक्रवर्तीं भूत्वा भूमण्डलं परिपालनीयम्' इति । तत् श्रुतवतः शिष्यस्य हासं दृष्ट्वा गुरुः वदति यदि भगवतः सङ्कल्पः स्यात् तर्हि लोके असाध्यं किमपि नास्ति इति । किं तस्य वृक्षस्य मनोवृत्तिः परिपूर्णा भवेत् ? गुर…
…
continue reading
कदाचित् कृष्णः विविधैः सुन्दरैः आभरणैः आत्मानम् अलङ्कुर्वन् आसीत् । यः कदापि बाह्यालङ्कारे आसक्तिं न दर्शयति सः अद्य कथं बाह्यालङ्कारे विशेषास्थावान् इति चिन्तयन् सारथिः दारुकः कारणं पृच्छति । तदा कृष्णः वदति 'दुर्योधनं द्रष्टुं गच्छामि । बाह्याडम्बरदर्शने तस्य विशेषासक्तिः । अतः तं प्रभावयितुम् अयं वेशः' इति । पुनः दारुकः वदति यत् 'भवता किमर्थं तत…
…
continue reading
कस्यचन वृद्धस्य राज्ञः प्रासादे उत्सवः आयोजितः आसीत् । बहवः नृपाः आसन् । कार्यक्रमान्ते नर्तक्याः नृत्यं प्राचलत् । किञ्चित्कालानन्तरं वाद्यवादकः निद्रां प्राप्नुवन् अस्ति इति कारणतः नर्तकी भीत्या तं सावधानं कर्तुम् एकं श्लोकम् अवदत् । वाद्यवादकः तन्द्रां त्यक्त्वा सम्यक् अवादयत् । तस्य श्लोकस्य अर्थं विभिन्नाः जनाः विभिन्नप्रकारेण स्वीकृतवन्तः । न…
…
continue reading