It is about social life .Include stories which give moral values
…
continue reading
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः ...
…
continue reading

1
Podcast in Hindi on Kids Moral Stories & Indian History, Hindi Kahaniya, Hindi Story, हिंदी कहानियाँ
Kulbeli
Kulbeli Podcast Kids Moral stories! We bring you weekly episodes of inspiring and informative stories from popular collections such as Panchtantra, Akbar Birbal, Gone Jha, Lok Katha, Fairy Tales, Tenalirama, Sheikhchilli, Motivational Stories in Hindi, Stories for all ages, Hindi Kahani, Kahaniyan, and Indian History. Our stories are designed for listeners of all ages, and we offer stories that are both entertaining and educational. The stories we feature are perfect for bedtime listening. S ...
…
continue reading
Become a Paid Subscriber: https://podcasters.spotify.com/pod/show/kahaniwithprachi/subscribe Fun, motivational, life inspirations, classics and hidden gems of short Hindi stories for ages 1-100. Follow Kahani on instagram @kahani.podcast Website: https://wwww.prachigangwal.com
…
continue reading
Hello everyone. I am your narrator Meenu Rani Jain. Welcome to my podcast 'शिक्षाप्रद कहानियाँ' and here I will be telling you educational stories where each story will end with a Moral. Thank You. नमस्ते, मैं आपकी कथावाचक मीनू रानी जैन हूं। मेरे पॉडकास्ट शिक्षाप्रद कहानियाँ में आपका स्वागत है और यहाँ मैं आपको ऐसी कहानियाँ सुनआऊंगी जहाँ प्रत्येक कहानी एक शिक्षा के साथ समाप्त होगी। धन्यवाद।
…
continue reading
रामायण - भारतीय संस्कृति का एक महत्वपूर्ण हिस्सा, एक अद्वितीय कथा जो हमें धर्म, नैतिकता, और प्रेम की महत्वपूर्ण सीखें देती है। अब, इस महाकाव्य को नए अंदाज़ में देखने का समय आ गया है। नितीश भारद्वाज की आवाज़ में, हम लेकर आए हैं एक नए और उत्कृष्ट रूप में "रामायण"। यह नया फॉर्मेट हमें एक अद्वितीय अनुभव प्रदान करेगा, जहां हम इस प्राचीन कथा को नए तरीके से अनुभव करेंगे। "रामायण" या राम कथा भारतीय जानमानस की भावनाओं से गहरे जुडी कहानी है; जिसके बिना भारत की कल्पना भी नहीं की जा सकती। तो आइये इसे सु ...
…
continue reading
जैसा कि हम सब जानते हैं यह दुनिया अलौकिकता से परिपूर्ण है, जो प्रत्यक्ष रूप से दिखाई नहीं देती। परंतु उस अलौकिक ज्योति को कल्पनाओं द्वारा महसूस किया जा सकता है, जो सिर्फ कहानी द्वारा ही संभव है, और Priyanshi-Thoughts ऐसी ही दुनिया है जो आपको काल्पनिक दुनिया में विलीन कर देगी।
…
continue reading
कृष्णचन्द्रनामकस्य कस्यचन महाधनिकस्य सर्वविधानि आनुकूल्यानि सन्ति चेदपि सः अनित्यस्य जीवनस्य चिन्तया व्याकुलः आसीत् । कदाचित् प्रवचनकारेण उक्तम् - ‘देवाः अमृतसेवनात् चिरञ्जीविनः नित्यसुखिनः......’। एतत् श्रुत्वा अमृतलाभाय कृष्णचन्द्रः इन्द्रदर्शनार्थं तपः आचरितवान् । सन्तुष्टः इन्द्रः अमृतपूर्णं घटमेकम् तस्मै दत्त्वा उक्तवान् यत् घटः अधः न स्थापनीय…
…
continue reading
कदाचित् वेदनिधिः महर्षिं व्यासं पृष्टवान् "भगवन्, मानवाः भवता भृशम् उपकृताः । अतः मानवा: भवद्विषये केन प्रकारेण श्रद्धां समर्पयेयुः?" इति । महर्षिः व्यासः अवदत् "केवलं मम पूजनं वा स्तुतिं वा कृत्वा मम प्रीतिः न भवति । सर्वत्र धर्मेषु, सम्प्रदायेषु, गुरुषु च मम अंशः विद्यते । अतः स्वस्य स्वस्य गुरुणां पूजा एव मम पूजा । एषा पूजा आषाढपूर्णिमायाम् आचर्…
…
continue reading
कस्मिंश्चित् कुटुम्बे उभौ भ्रातरौ आस्ताम् । तयोः पिता मध्यपानं कृत्वा गृहे सर्वदा कोलाहलं करोति स्म । एतत् दृष्ट्वा तयोः अन्यतरः अचिन्तयत् यत् मया स्वीये जीवने एवं न भवितव्यमिति । अतः सः सर्वाः बाधाः अविगणय्य अध्ययने निरतः अभवत् । उच्चपदवीं च प्राप्तवान् । किन्तु अन्यः भ्राता गृहस्य कलहपूर्णेन वातावरणेन अध्ययने अनासक्तः जातः । अनुचितेषु कार्येषु प्…
…
continue reading
सम्राजः अशोकस्य जन्मदिनम् आचर्यमाणम् आसीत् । तस्मिन् महोत्सवे बहवः अधीनराजाः स्वस्वराज्यस्य प्रगतिं गर्वेण निवेदितवन्तः। केचन करशुल्कवृद्ध्या, केचन शत्रुविजयेन, केचन कर्मकराणां वेतनकर्षणेन अधिकं धनं सञ्चितवन्तः इति गर्वेन अवदन् । केवलं मगधराजः विनयेन अशोकं प्रति अवदत् – "मम कोषे गतवर्षस्य अपेक्षया अर्धम् अपि धनं नास्ति । मया कर्मकराणां सुखाय, प्रजा…
…
continue reading
भगीरथप्रयत्नं गङ्गावतरणकथां च वयं जानीमः । दक्षिणे भारते शङ्करभक्तः सुकेशी नामा राजा तपसा शङ्करं तोषयामास । तेन गङ्गायाः दक्षिणदेशे तीर्थरूपेण आगमनं प्रार्थितम् । शङ्करः एकं फलं दत्त्वा गुप्तरूपेण गङ्गायाः आगमनं कथितवान् । तस्य आराधनाय विशेषविधिं च दर्शितवान् । तस्मात् दिव्यं फलं नारिकेलरूपेण, गङ्गाजलेन पूर्णं, पावनतायाः प्रतीकम् अभवत्। (“केन्द्रीय…
…
continue reading
कश्चित् राजा प्रश्नत्रयात् चिन्ताक्रान्तः आसीत् । तत् च 'सत्कार्यं कर्तुं कः कालः उचितः? महत् कार्यं किम्? सर्वस्मात् उत्कृष्टः क:?’ इति । सः कञ्चन आश्रमं गत्वा तत्रत्यं साधुं पृष्टवान् । सः साधुः किमपि उनुक्त्वा सस्यानाम् आलवालनिर्माणकार्ये मग्नः आसीत् । तदनन्तरं यत् प्रचलितं तेन प्रश्नानाम् उत्तराणि प्राप्तानि राज्ञा । किं प्राचलत् तत्र? तदनन्तरं…
…
continue reading
कदाचित् निद्रामग्नस्य पान्थस्य पार्श्वे स्थितात् पात्रात् कश्चन शुनकः अन्नम् अखादत् । जागरितः पान्थः पात्रे किमपि नास्ति इति ज्ञात्वा परमेश्वरं साहाय्यं याचित्वा रोदनम् आरब्धवान् । कैलासे स्थिता पार्वती पान्थस्य साहाय्यं कर्तुं परमेश्वरं वदति । तदा शिवः वदति यत् 'सः पान्थः तत् अन्नं निद्रामग्नायाः वृद्धायाः शिरोमूलतः अपहृतवान् अस्ति । अनुचितं कार्य…
…
continue reading
कदाचित् गृहे उपविश्य नाणकानि गणयन्तं वणिजं दृष्ट्वा अद्य एतस्मात् गृहात् चोरणीयम् इति चोरः अचिन्तियत् । तम् चोरम् अकस्मात् वणिक् दृष्ट्वा 'एषः चोरः स्यात्, अद्य मम गृहमागत्य चोरयेत्' इति विचिन्त्य कमपि उपायं कृत्वा पत्नीम् अपि सूचितवान् । रात्रौ यदा चोरः आत्मानं गोपयित्वा गृहात् बहिः स्थितवान् आसीत् तदा पतिपत्न्योः मध्ये प्रचलितं सम्भाषणं श्रुत्वा …
…
continue reading
मिथिलानगरे महाराजेन हरसिंहदेवेन आयोजिते वीरप्रदर्शनकार्यक्रमे कश्चन पालनामकः ब्राह्मणः तस्य चतसृभिः पुत्रीभिः सह आसीत् । किशोरचौधरीनामकस्य मल्लस्य वीरप्रदर्शनं दृष्ट्वा महाराजः तम् अभिनन्द्य, तस्मै उपायनानि च अयच्छत् । पालस्य कनिष्ठा पुत्री उत्थाय 'अनेन महत् कार्यं किं कृतम् ? अभ्यासेन मानवः किमपि साधयितुं शक्नोति' इति अवदत् । क्रुद्धः राजा सा राज्…
…
continue reading
आशुतोषमुखर्जी कोलकाताविश्वविद्यालयस्य कुलपतिः कोलकातायाः उच्चन्यायालयस्य न्यायाधीशश्च आसीत् । एतम् इङ्गलेण्डं प्रति प्रेषयितुम् ऐच्छत् तत्कालीनः सर्वकारः । किन्तु धार्मिकैः कारणैः मात्रा न अनुमन्यते । मातुः आज्ञां शिरसा वहन् आशुतोषमुखर्जी सर्वकारं सूचयति । एतत् ज्ञात्वा कठोरमनस्कः लार्ड् कर्झनः कोपाविष्टः जातः । तस्य आदेशस्य तिरस्कारं कोऽपि कर्तुं …
…
continue reading
यद्यपि बहवः ऋषयः जनकमहाराजस्य आगमानात् पूर्वमेव आगच्छन्ति स्म तथापि महर्षिः याज्ञवल्क्यः जनकमहाराजस्य अगमानानन्तरमेव उपदेशस्य आरम्भं करोति स्म । 'जनकमहाराजे अस्मासु अविद्यमाना का योग्यता अस्ति?’ इति ऋषीणां परस्परं वार्तालापः याज्ञवल्क्येन ज्ञातः । सः तेषां बोधनाय एकम् उपायं चिन्तितवान् । कदाचित् धर्मोपदेशसमये कश्चन वटुः आगत्य 'कुटीराणि अग्निना ज्वल…
…
continue reading
कश्चन दैवभक्तः महाराजः तस्य परमसुन्दरीं भक्तिमतीं च पुत्रीं भगवति यस्य सम्पूर्णः विश्वासः भवति तस्मै दातुम् इच्छति । कदाचित् सुप्रसन्नं, कौपीनधारिणं, भगवतः पुरतः स्थित्वा ध्यायन्तं च तरुणं दृष्ट्वा कांश्चन प्रश्नान् राजा अपृच्छत् । तस्य उत्तराणि श्रुत्वा सानन्दं तेन सह पुत्र्याः विवाहं कारितवान् । गृहगमनसमये कस्यचित् वृक्षस्य कोटरे स्थापितं जलं रोट…
…
continue reading
कश्चन वृद्धः प्रतिदिनं प्रवचनं श्रोतुं गृहस्य समीपस्थम् आश्रमं गच्छति स्म । गच्छता कालेन तस्य श्रवणशक्तिः न्यूना जाता चेदपि सः प्रवचनं श्रोतुं गच्छति स्म । एकदा प्रवचनकारेण कारणे पृष्टे वृद्धः वदति 'अहं परिवारस्य प्रमुखः अस्मि । अहम् अत्र आगच्छामि इति ज्ञात्वा मम परिवारजनाः अपि आगच्छन्ति । तेन तेषां हृदये भगवतः विषये श्रद्धा जीविता तिष्ठति । अतः श्…
…
continue reading
कस्यचन वणिजः गृहम् उभयतः द्वौ लोहकारौ कुटीरं निर्माय प्रतिदिनं प्रातः आरभ्य रात्रिपर्यन्तं कार्यं कुरुतः । आदिनं कर्कशं लोहकुट्टनशब्दं सोढुम् अशक्नुवन् वणिक् एकम् उपायं करोति । परेद्यवि ताभ्यां लोहकाराभ्याम् अन्यकुटीरगमनार्थं सहस्रं रूप्यकाणि अयच्छत् । उभौ अपि अङ्गीकृतवन्तौ । किन्तु अग्रिमदिवसे पुनः कुट्टनशब्दं श्रुत्वा यदा वणीक् तौ पृच्छति तदा तौ …
…
continue reading
कदाचित् कश्चन शिष्यः बौद्धधर्मप्रसारणार्थं सूनप्रातपरिषदं गन्तुम् इच्छामि इति बुद्धं वदति । बुद्धः सर्वदा गमनसमये शिष्याणां मनोबलं सम्यक् परिशील्य एव तान् अन्यत्र प्रेषयति । अतः बुद्धः एतं शिष्यं परीक्षते । बुद्धः बहून् प्रश्नान् पृच्छति, भाययति च । किन्तु शिष्यः किञ्चिदपि विचलितः न अभवत् । शिष्यस्य मुखात् निर्गतानि वचनानि श्रुत्वा तस्य ज्ञानं धैर्…
…
continue reading
इयं कथा पितापुत्रयोः व्यासशुकदेवयोः मध्ये संवादरूपेण वर्तते । शुकदेवः यदा जन्म प्राप्तवान् तदा एव उत्थाय पितरं नमस्कृत्य वनं गन्तुं सज्जः अभवत् । पुत्रस्य एतादृशं व्यवहारं दृष्ट्वा विस्मितः व्यासः पुत्रस्य मनसि कथमपि संस्कारविषये आसक्तिः जनयितव्या इति मत्वा बहून् विषयान् वदति । परन्तु केनापि शुकदेवः न विचलति । वादप्रतिवादयोः अनन्तरं व्यासः विरक्तः …
…
continue reading
कदाचित् कश्चन काव्यकुशलः जैनाचार्यः किञ्चन महाकाव्यं रचयितुम् आरब्धवान् । कस्मिंश्चित् सर्गे जलधेः वर्णनं कर्तुम् आरभते । जलधेः विषयमेव सर्वदापि सः चिन्तयन् भवति । तन्मधे जलोदररोगेण ग्रस्तः भवति । सर्वं वृत्तान्तं ज्ञात्वा वैद्यः वदति 'जलधेः वर्णनं समाप्य मरुभूमेः वर्णनं करोतु' इति । जैनाचार्यः विस्मितः सन् अपि वैद्यस्य सूचनां श्रद्धया अपालयत् । जल…
…
continue reading
कदाचित् कश्चन बौद्धभिक्षुः कम्बोजराज्यम् आगत्य महाराजं तिङ्गभिङ्गं प्रति तस्य राज्यस्य राजपुरोहितः भवितुम् इच्छामि इति कामनां प्राकटयत् । किन्तु राजा 'पुनरपि एकवारं धर्मग्रन्थानाम् आवृत्तिं कृत्वा अगच्छेत्' इति अवदत् । कुपितः सन् सः भिक्षुः किमपि अनुक्त्वा धर्मग्रन्थानाम् अध्ययनम् एकवर्षं यावत् कृत्वा पुनरागच्छति । किन्तु राजा 'एकान्तवासम् अनुभवन् …
…
continue reading
कदाचित् साक्षात् भगवान् विश्वनाथः मन्दिरस्य पूजकस्य स्वप्नम् आगत्य 'अहं सर्वश्रेष्ठाय पुण्यात्मने कमपि पुरस्कारं दातुम् इच्छामि' इति अवदत् । अनन्तरदिने पूजकः सर्वत्र घोषम् अकरोत् । ततः विभिन्नेषु प्रदेशेषु विद्वांसः, धर्मात्मानः, दातारः, साधकाः च मन्दिरं समागताः । पूजनसमये भगवतः मूर्तेः पुरतः एकं स्वर्णपात्रम् आगतम् । परीक्षार्थं सः पूजकः येषां हस्…
…
continue reading
भारतीयेतिहासस्य मध्यकाले चित्रदुर्गनामके संस्थाने सैनिककुटुम्बे जयसिंहः नाम कश्चन युवकः खड्गादिभिः योद्धुं नेष्यते स्म । गाने वाद्यसङ्गीते च तस्य महती आसक्तिः । 'देशस्य रक्षणं न केवलं शस्त्रेण एव, अपि तु सङ्गीतेनापि शक्यम्' इति वदति स्म । कदाचित् सः ब्रिटिश्सैनिकैः निगृहीतः । उच्चाधिकारी 'अद्य रात्रौ दुर्गस्य मुख्यद्वारस्य पुरतः गातव्यम्' इति अवदत…
…
continue reading
अङ्गारदेशस्य राज्ञः अङ्गदस्य पुत्रः अक्षयकुमारः । प्रधानमन्त्रिणा जीमूतेन युवराजस्य अध्यापनाय भानुमित्रः गर्गः चेति उभौ आचार्यौ चितौ । भानुमित्रः सुन्दरः सम्भाषाणचतुरः उत्कृष्टवस्त्रधारी च आसीत् । गर्गः तु सामान्यः वेषभूषादिषु अनासक्तः मितभाषी च आसीत् । अतः राज्ञ्यै गायत्र्यै गर्गः न अरोचत । केषाञ्चित् दिनानाम् अनन्तरं जीमूतः राजानं राज्ञीं च आयुध…
…
continue reading
कदाचित् प.पू वल्लभदीक्षितः तत्पुत्रः च श्रीधरहर्गेमहाराजः तीर्थयात्रां कुर्वन्तौ गोदावरीनद्याः समीपे स्थितं राजमहेद्रपत्तनम् आगतवन्तौ । सुखसम्पन्नं नगरं दृष्ट्वा वल्लभदीक्षितः सङ्कल्पितवान् यत् सप्त दिनानि भागवतपारायणं कथाश्रवणं च करणीयम्, तदवसरे सर्वजातिबान्धवानाम् अपि भोजनव्यवस्था करणीया इति । किन्तु नगरस्य धनिकाः वणिजः अदृष्टपूर्वे जने अधिकं विश…
…
continue reading
कदाचित् अकबरस्य मनसि 'सर्वदा बीरबलः मामेव अपहासपात्रं करोति । मया एकवारं वा सः अपहासपात्रीकरणीयः' इति । अथैकदा अकबरः प्रयत्नम् अपि अकरोत् । किन्तु बीरबलः तु असमान्यः । तं पराजेतुं कष्टम् एव । अकबरस्य प्रयासः व्यर्थः जातः । किं वा अकबर-बीरबलयोः मध्ये प्राचलत् इति जिज्ञासायां कथां शृण्वन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया…
…
continue reading
कदाचित् नारदः स्वसोदराणां सनक-सनत्कुमार-सनन्दन-सन्त्सुजातानां वैराग्यम् आत्मज्ञानप्राप्तिजिज्ञासां जानन् 'योग्यं गुरुम् अन्विष्य मुक्तिं प्राप्तुं प्रयत्नं कुर्वन्तु' इति स्मारितवान् । सनकादयः वैकुण्ठं यदा गतवन्तः तत्र लक्ष्मीसहितं विष्णुं, तत्रत्यं वैभवं दृष्ट्वा आत्मज्ञानं कथं लभेत इति अचिन्तयन् । सर्वम् अन्तर्ज्ञानेन जानन् शिवः सनकादीन् अनुग्रही…
…
continue reading
शान्तिपुरं नाम किञ्चन राज्यं शान्तिप्रियः अमलवर्मा परिपालयति स्म । कदाचित् शान्तिपुरस्य प्रतिवेशिराज्यस्य परमक्रूरः लोभी च राजा क्रूरसिंहः पूर्वसूचनां विना युद्धघोषणं कृतवान् । कथञ्चिदपि युद्धं निवारयितुं अमलवर्मा मक्षिकाणां महाराजेन मक्षीशेन मिलित्वा साहाय्यं पृष्टवान् । युद्धतः प्रत्यागमनान्तरं राज्ये वासार्थम् अनुमतिः दातव्या इति मक्षीशः प्रार्थ…
…
continue reading
कस्यचन वणिजः गृहे प्रभूतः कार्पासः अस्तीति ज्ञात्वा कश्चन चोरः तं चोरयितुम् आगतः । कार्पासस्य बन्धनाय यावत् वस्त्रं प्रसारितवान् तावता चतुरेण वणिजा जागरणं प्राप्य मन्दम् उत्थाय वस्त्रम् अपसारितम् । कथञ्चिदपि कार्पासं नेतव्यमिति निश्चित्य स्वस्य युतकम् ऊरुकं च प्रसारितवान् यत् वणिजा अपसारितम् । चोरः निर्वस्त्रः जातः । ततः वणिक् गृहसदस्यान् जागरय्य च…
…
continue reading
'यथा कृत्यं तथा फलम्' इति वचनस्य उत्तमम् उदाहरणं भवितुम् अर्हति एषा कथा । कदाचित् मित्रे गजवानरौ नद्याः अपरस्मिन् तीरे स्थितानि स्वादूनि फलानि खादितुम् उद्युक्तौ । वानरः अङ्कुशं गृहीत्वा गजस्य पृष्ठे उपविष्टवान् । सः कदाचित् अङ्कुशेन गजं ताडयित्वा, पीडयित्वा कार्यं कारयन्तं हस्तिपकं दृष्टवान् आसीत् । गजः नद्यां किञ्चिद्दूरं गतवान् तदा वानरः गजम् अङ…
…
continue reading
सन्ततुकारामः पुण्यपत्तनसमीपे देहुनामके ग्रामे निवसति स्म । सः प्रातः उत्थाय स्नानादिकं कृत्वा भोजनादिचिन्ताम् अकृत्वा वीणां करतालं च गृहीत्वा निर्जनं पर्वतं गच्छति स्म भजनं कर्तुम् । सः सर्वेषु अपि प्राणिषु स्थितः परमात्मा एव इति विचिन्त्य धान्यक्षेत्रे पक्षिणः न निवरयति । कदाचित् क्षेत्रस्वामिनः प्रेषितं धान्यराशिम् अपि ग्रामजनेभ्यः वितरति । सः आत…
…
continue reading
दक्षिणभारते काञ्चिनगरे कस्यचन यज्ञस्य प्रवेशद्वारे मृत्युदेवस्य यमराजस्य वक्रदृष्टिः अपतत् इति कारणेन कश्चन पारवतः म्लानमुखः आसीत् । तत्रैव स्थितः सरलहृदयः सहायमनस्कः च गरुडः कारणं ज्ञात्वा पारवतं पारेयोजनसहस्रं सुमेरुपर्वतस्य कन्दरां प्रापय्य प्रत्यागतः। यज्ञसभातः निष्क्रामन् यमराजः पारवतस्य गहनतामासु सुमेरुकन्दरासु एकेन बिडालेन कथं सम्पाद्यते इत…
…
continue reading
कल्पनालोके विहरन् कश्चन तरुणः कदाचित् स्वप्ने राजत्वं प्राप्तवान् आसीत् । अग्रिमदिनात् आरभ्य सः महाराजवत् व्यवहारम् आरब्धवान् । मातापितरौ किमपि कार्यं वदतः चेत् सः वदति 'अहं महाराजः अस्मि । किं महाराजः स्वयं कार्यं कुर्यात्?’ इति । एषः कथं बोधनीयः इति गृहसदस्याः यदा चिन्ताक्रान्ताः आसन् तदा तस्य अनुजा उपायेन तं समीकरोति । वस्तुस्थितिम् अवगत्य सः त…
…
continue reading
कदाचित् राज्ञः विक्रमादित्यस्य मनसि त्रयः प्रश्नाः उदिताः -’ईश्वरात् पूर्वं कः आसीत्?’, 'ईश्वरः कुत्र निवसति?’, 'ईश्वरः किं करोति?’ । 'सन्तोषप्रदानि उत्तराणि यः यच्छति तम् अर्धं राज्यं दास्यामि, असम्यक् उत्तरं यः ददाति तस्मै कठोरदण्डनम्' इति घोषणां कारितवान् । दण्डभयात् कः अपि जनः उत्तरं दातुं साहसं न कृतवान् । किन्तु कश्चन हलवाहकः आगत्य राज्ञः त्र…
…
continue reading
कस्यचित् धनिकस्य अन्त्यकाले पुत्राणां साहाय्यम् अपेक्ष्य एकैकं पुत्रम् आहूय साहाय्यं याचते । त्रयः अपि पुत्राः भिन्नं भिन्नम् उत्तरं अयच्छन् । तृतीयस्य पुत्रस्य उत्तरं श्रुत्वा धनिकः शान्त्या दिवङ्गतः । ते एव त्रयः पुत्राः धनजनपुण्यरूपाः । प्रथमः पुत्रः धनकनकादिसम्पद्रूपः । द्वितीयः आप्तजनः । तृतीयस्तु परोपकारः । एषा कथा परोपकारस्य महत्त्वं सम्यक् …
…
continue reading
कस्मिंश्चित् ग्रामे शास्त्रग्रन्थादीन् पठितवान् कश्चन गर्वी पण्डितः आसीत् । सः स्वीयां प्रशंसां स्वयमेव सर्वत्र कुर्वन् भ्रमति स्म । कदाचित् कश्चन बुद्धिमान् जनः तं पण्डितं 'अन्यं ग्रामं गत्वा तत्रत्यान् पण्डितान् जयति चेत् भवतः पाण्डित्यस्य मूल्यम् अत्रत्याः जनाः अवगच्छेयुः' इति अवदत् । पण्डितः ससन्तोषं यावत् सः पार्श्वस्थं ग्रामं प्राविशत् कश्चन…
…
continue reading
कदाचित् वनप्रदेशे तृणसेवनमग्नात् मेषसमूहात् एकः मेषशावकः पृथक् जातः । शावकः एकाकी स्वगृहमार्गस्य अन्वेषणं यदा आरब्धवान् तदा निर्झरस्य समीपे विद्यमानासु वालुकासु वनराजस्य सिंहस्य सुचारूणि पदचिह्नानि अपश्यत् । एकाग्रतया भक्त्या च वनराजस्य पदचिह्नानि पश्यन्तं शावकं जम्बूकः, वृकः, व्याघ्रः च यथाक्रमं दृष्ट्वा सौजन्येन व्यवहृत्य ततः पलायनं अकुर्वन् । सा…
…
continue reading
आसीत् कश्चन नापितः यः प्रतिदिनं भगवतः ध्यानं कृत्वा एव कार्ये प्रवर्तते स्म । अथैकदा भगवन्तं पूजयित्वा ध्यानमग्नः अभवत् । समये तस्य उनुपस्थितिं दृष्ट्वा कुपितः राजा भटान् प्रेषयति । भीता नापितस्य पत्नी पतिः गृहे नास्ति इति अवदत् । असूयावन्तः भटाः भार्या अनृतम् अवदत्, नापितः गृहे एव अस्ति इति अवदन् । तत् श्रुत्वा क्रुद्धः राजा नापितम् आनेतुं भटान् य…
…
continue reading
अस्ति भारते हिमालयस्य सन्निकटे बोयलनामकः ग्रामः । अथैकदा अत्रत्याः बहवः ग्रामीणाः यदा कुम्भस्नानाय प्रयागं प्रति प्रस्थिताः तदा मार्गे खड्गहस्ताः लुण्ठकाः आगताः । सर्वे यात्रिणः भीताः । तेषु शिवदेवनामकः अतीव भीतः पर्वतीयभाषया 'ओ.. इ.. जा.. आ.. ज.. मर् यां.. अम्ब ! अद्य मृताः वयम्' इति उच्चैः क्रन्दनं कृत्वा कूर्दितवान् । तत् सर्वं दृष्ट्वा लुण्ठकाः…
…
continue reading
कस्मिंश्चित् नगरे विजयरामनामकः कश्चन महाधनिकः अत्यन्तं लोभी आसीत् । सम्पत्तेः सङ्ग्रहणं तस्य विकृतः स्वभावः आसीत् । एकदा कश्चन साधुः धनिकस्य गृहसमीपस्थात् उद्यानात् कस्यचित् पक्षिणः मधुरं गानं श्रुत्वा एकं सुवर्णनाणकं दत्त्वा 'अनेन फलानि बीजानि पक्षिणः प्रियखाद्यानि च क्रीत्वा पक्षिणे ददातु' इति उक्तवान् । किन्तु सः लोभी धनिकः मम पक्षिणः गानश्रवणाय…
…
continue reading
सुन्दरपुरनाम्नि ग्रामे कस्यचन कृषकस्य पुत्रः अनिलः अलसः युवकः निरुद्योगी सन् आदिनं मित्रैः सह इतस्ततः भ्रमन् आसीत् । कदाचित् सूर्यास्तसमये समीपस्थात् पर्वतात् अवरोहद्भिः आरुह्यमाण: कश्चन वृद्धः लघुना दीपेन सह दृष्टः । आचर्येण यदा अनिलः अपृच्छत् तदा सः वृद्धः शिखरस्थं शिवालयं गन्तुम् इच्छामि इति अवदत् । तदनन्तरं यानि हितवचनानि वृद्धेन उक्तानि तानि व…
…
continue reading
कदचित् उषास्नाता कलिका स्वस्य अनुपमं सौन्दर्यम् अवलोक्य गर्विता । सहसा तस्याः दृष्टिः समीपस्थं धूलिधूसरितं पाषाणखण्डं दृष्ट्वा 'ईश्वरेण कीदृशीं विकृतिं गमितः त्वम्' इति उक्तवती । पाषाणखण्डः किमपि अनुक्त्वा तूष्णीम् अतिष्ठत् । अग्रिमदिने कश्चन मूर्तिकारः आगत्य तेन पाषाणखण्डेन एकां देवमूर्तिम् अरचयत् । एकस्मिन् मन्दिरे स्थापितवान् च । अग्रिमदिने यदा…
…
continue reading
कदाचित् घोरे युद्धे प्रवृत्ते उभयपक्षीयाः अपि बहवः मृताः । सर्वत्र मानवानां शवाः एव दृश्यन्ते स्म । कतिपयैः जनैः सह 'आदर्शः' अपि भीतो भूत्वा पलायनम् आरब्धवान् । दैवदुर्वियोगवशात् पलायमानः सः आदर्शः आतङ्कवादिना गृहीतः । यदा आदर्शः वदति 'मानवतारक्षणं मम धर्मः' ततः आरभ्य सः आतङ्कवादिनाम् अज्ञाते स्थले निरुद्धः वर्तते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस…
…
continue reading
कदाचित् कश्चन चोरः मनःपरिवर्तनं प्राप्तुं मुनेः समीपं गतवान् । सः मुनेः वचनानुसारं सत्यमेव भाषितुं सङ्कल्पं कृत्वा ततः कदापि मिथ्याभाषणं न कृतवान् । एकदा सः राजकोषतः सुवर्णपेटिकाद्वयमेव चोरयित्वा यदा धावितुम् आरब्धवान् तदा मार्गमध्ये मन्त्री लब्धः । प्रवृत्तं सर्वं ज्ञात्वा सः मन्त्री इतोपि एकां सुवर्णपेटिकाम् अपहृतवान् । जनाः पेटिकात्रयमपि चोरेण अ…
…
continue reading
वयं सर्वे विजयनगरस्य राजानं कृष्णदेवरायं, तस्य परमाप्तमन्त्रिणं तेनालिरामकृष्णं जानीमः एव । तेनालिरामकृष्णः परोपकारी सङ्कटतारकः तीक्ष्णमतिः च आसीत् इति सर्वे जानन्ति स्म । अस्यां स्वारस्यकार्यां कथायां तेनालिरामकृष्णः कथं कञ्चन अश्वपोषकं राज्ञः दण्डनात् रक्षति, कम् उपायं करोति इति पश्यामः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया…
…
continue reading
यदा पुष्करनगरनृपः कदाचित् रुग्णः जातः तदा राजपुरोहितः सूचयति यत् विपुलस्य सुवर्णस्य दानकरणेन राजा स्वस्थः भवितुम् अर्हति इति । तद्वदेव राजा दशकोटिसुवर्णमुद्राणां दानाय व्यवस्थां करोति । किन्तु मन्त्री नगराध्यक्षः च वञ्चनां कृत्वा अल्पम् एव धनराशिं प्रजाभ्यः दत्तवन्तौ । विपुलं दानं कृत्वा अपि यदा नृपः स्वास्थ्यं न प्राप्तवान् तदा सः सुवर्णस्य दानं य…
…
continue reading
कदाचित् कश्चन कुक्कुरः दिल्लीतः हरिद्वारं प्रति अधावत् । मार्गे केचन कुक्कुराः भषन्तः एतं कुक्कुरम् अनुसृतवन्तः । एषः कुक्कुरः तैः सह सङ्घर्षम् अकृत्वा हरिद्वारं प्रति अधावत् । यदि सङ्घर्षं कृतवान् स्यात् तर्हि अन्ये कुक्कुराः तस्य महतीं हानिं कृतवन्तः स्युः । तेन समयश्रमयोः महती हानिः अभविष्यत्, अपायः अपि अभविष्यत् । लक्ष्यप्राप्तिमार्गे ये विरोधि…
…
continue reading
अस्यां कथायां वेदव्यासस्य पुत्रेण शुकदेवेन ज्ञायते यत् एतस्मिन् जगति विधिना निर्मितस्य वस्तुजातस्य अवश्यं हि कापि उपयुक्तता वर्तते एव । पूर्णरूपेण अनुपयुक्तं वस्तु दुर्लभम् एव । ईश्वरेण प्रत्येकं वस्तु मानवलोककल्याणार्थम् एव निर्मितम् । एतस्मिन् लोके सर्वथा अनुपयुक्तम्, अतः एव त्यक्तव्यम् एकमेव वस्तुजातम् । तद् अस्ति अहङ्कारः नाम । अतः सः गुरुं जनक…
…
continue reading
कस्यचन पण्डितस्य कन्या सर्वगुणसम्पन्ना उच्चाकाङ्क्षिणी च प्रतिज्ञाबद्धा आसीत् यत् सर्वे यं प्रशंसन्ति, यश्च शक्तिशाली भवति तमेव अहं वृणोमि इति । एकदा सा महाराजं दृष्ट्वा तमेव वृणोमि इति अचिन्तयत् । किन्तु सः यदा गुरोः पादस्पर्शं करोति, तदा गुरुः एव श्रेष्ठः इति चिन्तयति । पुनः गुरुः देवं प्रणमति इति करणेन देवः श्रेष्ठः इति चिन्तयति । अन्ततो गत्वा प…
…
continue reading
कदाचित् प्रह्लादः वरयाचनसमये भगवन्तं नृसिंहं वदति यत् 'अहम् एकाकी मुक्तः भवितुं न इच्छामि । सर्वान् अपि जीवान् स्वीकृत्य वैकुण्ठं प्रति गमनाय अनुमतिं ददातु' इति । 'त्वमेव सर्वान् पृष्ट्वा ये वैकुण्ठं गन्तुम् इच्छन्ति तान् सर्वान् स्वीकृत्य आगच्छ' इति भगवान् वदति । ततः प्रह्लादः प्रष्टुं गच्छति । ब्राह्मणाः, परिव्राजकाः, राजानः, वणिजः, सेवकाः, पशुपक…
…
continue reading
टिबेटदेशे अधिकतया मौनेन स्थितवन्तं साधुपुरुषं दृष्ट्वा जनाः चिन्तितवन्तः यत् एषः सर्वाणि रहस्यानि जानाति इति । कदाचित् कश्चन युवकः तं रहस्यं ज्ञातुं साधुपुरुषम् उपसर्प्य स्वस्य इच्छां निवेदितवान् । साधुपुरुषः किमपि रहस्यं न जानामि इति प्रथमम् अवदत् । किन्तु युवकेन पुनः पुनः निवेदिते साधुपुरुषः सः कथमपि अन्यत्र प्रेषणीयः इति विचिन्त्य -'ॐ मणिपद्मे ह…
…
continue reading
राज्ञः शयार्तेः तनया सुन्दरी मनोहारिणी च । तनया सुकन्या शापग्रस्तानां सैनिकानां हिताय च्यवनमहर्षिं परिणीय तस्य सेवायै लग्ना असीत् । एकदा अश्विनीकुमारौ ऋषिसेवारतायाः सुकन्यायाः सौन्दर्यम् अवलोक्य 'एतं वृद्धं विहाय आवयोः अन्यतरं वृष्णीष्व' इति उक्तवन्तौ । तन्निराकरोति सुकन्या । तां पतिव्रतां विज्ञाय अश्विनीकुमारौ प्रसन्नौ भूत्वा आमलकीप्राशननिर्माणविध…
…
continue reading
रमणमहर्षेः भक्ताः वदन्ति स्म यत् रमणमहर्षिः भगवत्साक्षात्कारम् अपि प्राप्तवान् अस्ति इति । एतत् असहमानाः केचन क्रिस्तधर्मप्रचारकाः महर्षेः दाम्भिकता सप्रमाणं प्रकाशनीया इति सङ्कल्पितवन्तः । अतः ते कतिपयैः विदेशीयैः पत्रकारैः सह महर्षेः आश्रमं गत्वा भवतः ईश्वरस्य साक्षात्कारं द्रष्टुम् इच्छामः इति अवदन् । तदङ्गीकृत्य महर्षिः तान् कुष्ठरोगपीडितस्य ग…
…
continue reading