Mediacura Infoline सार्वजनिक
[search 0]
Download the App!
show episodes
 
Artwork

1
बालमोदिनी

सम्भाषणसन्देशः

icon
Unsubscribe
icon
Unsubscribe
रोज
 
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः ...
  continue reading
 
Loading …
show series
 
कदाचित् वनप्रदेशे तृणसेवनमग्नात् मेषसमूहात् एकः मेषशावकः पृथक् जातः । शावकः एकाकी स्वगृहमार्गस्य अन्वेषणं यदा आरब्धवान् तदा निर्झरस्य समीपे विद्यमानासु वालुकासु वनराजस्य सिंहस्य सुचारूणि पदचिह्नानि अपश्यत् । एकाग्रतया भक्त्या च वनराजस्य पदचिह्नानि पश्यन्तं शावकं जम्बूकः, वृकः, व्याघ्रः च यथाक्रमं दृष्ट्वा सौजन्येन व्यवहृत्य ततः पलायनं अकुर्वन् । सा…
  continue reading
 
आसीत् कश्चन नापितः यः प्रतिदिनं भगवतः ध्यानं कृत्वा एव कार्ये प्रवर्तते स्म । अथैकदा भगवन्तं पूजयित्वा ध्यानमग्नः अभवत् । समये तस्य उनुपस्थितिं दृष्ट्वा कुपितः राजा भटान् प्रेषयति । भीता नापितस्य पत्नी पतिः गृहे नास्ति इति अवदत् । असूयावन्तः भटाः भार्या अनृतम् अवदत्, नापितः गृहे एव अस्ति इति अवदन् । तत् श्रुत्वा क्रुद्धः राजा नापितम् आनेतुं भटान् य…
  continue reading
 
अस्ति भारते हिमालयस्य सन्निकटे बोयलनामकः ग्रामः । अथैकदा अत्रत्याः बहवः ग्रामीणाः यदा कुम्भस्नानाय प्रयागं प्रति प्रस्थिताः तदा मार्गे खड्गहस्ताः लुण्ठकाः आगताः । सर्वे यात्रिणः भीताः । तेषु शिवदेवनामकः अतीव भीतः पर्वतीयभाषया 'ओ.. इ.. जा.. आ.. ज.. मर् यां.. अम्ब ! अद्य मृताः वयम्' इति उच्चैः क्रन्दनं कृत्वा कूर्दितवान् । तत् सर्वं दृष्ट्वा लुण्ठकाः…
  continue reading
 
कस्मिंश्चित् नगरे विजयरामनामकः कश्चन महाधनिकः अत्यन्तं लोभी आसीत् । सम्पत्तेः सङ्ग्रहणं तस्य विकृतः स्वभावः आसीत् । एकदा कश्चन साधुः धनिकस्य गृहसमीपस्थात् उद्यानात् कस्यचित् पक्षिणः मधुरं गानं श्रुत्वा एकं सुवर्णनाणकं दत्त्वा 'अनेन फलानि बीजानि पक्षिणः प्रियखाद्यानि च क्रीत्वा पक्षिणे ददातु' इति उक्तवान् । किन्तु सः लोभी धनिकः मम पक्षिणः गानश्रवणाय…
  continue reading
 
सुन्दरपुरनाम्नि ग्रामे कस्यचन कृषकस्य पुत्रः अनिलः अलसः युवकः निरुद्योगी सन् आदिनं मित्रैः सह इतस्ततः भ्रमन् आसीत् । कदाचित् सूर्यास्तसमये समीपस्थात् पर्वतात् अवरोहद्भिः आरुह्यमाण: कश्चन वृद्धः लघुना दीपेन सह दृष्टः । आचर्येण यदा अनिलः अपृच्छत् तदा सः वृद्धः शिखरस्थं शिवालयं गन्तुम् इच्छामि इति अवदत् । तदनन्तरं यानि हितवचनानि वृद्धेन उक्तानि तानि व…
  continue reading
 
कदचित् उषास्नाता कलिका स्वस्य अनुपमं सौन्दर्यम् अवलोक्य गर्विता । सहसा तस्याः‌ दृष्टिः समीपस्थं धूलिधूसरितं पाषाणखण्डं दृष्ट्वा 'ईश्वरेण कीदृशीं विकृतिं गमितः त्वम्' इति उक्तवती । पाषाणखण्डः किमपि अनुक्त्वा तूष्णीम् अतिष्ठत् । अग्रिमदिने कश्चन मूर्तिकारः आगत्य तेन पाषाणखण्डेन एकां देवमूर्तिम् अरचयत् । एकस्मिन् मन्दिरे स्थापितवान् च । अग्रिमदिने यदा…
  continue reading
 
कदाचित् घोरे युद्धे प्रवृत्ते उभयपक्षीयाः अपि बहवः मृताः । सर्वत्र मानवानां शवाः एव दृश्यन्ते स्म । कतिपयैः जनैः सह 'आदर्शः' अपि भीतो भूत्वा पलायनम् आरब्धवान् । दैवदुर्वियोगवशात् पलायमानः सः आदर्शः आतङ्कवादिना गृहीतः । यदा आदर्शः वदति 'मानवतारक्षणं मम धर्मः' ततः आरभ्य सः आतङ्कवादिनाम् अज्ञाते स्थले निरुद्धः वर्तते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस…
  continue reading
 
कदाचित् कश्चन चोरः मनःपरिवर्तनं प्राप्तुं मुनेः समीपं गतवान् । सः मुनेः वचनानुसारं सत्यमेव भाषितुं सङ्कल्पं कृत्वा ततः कदापि मिथ्याभाषणं न कृतवान् । एकदा सः राजकोषतः सुवर्णपेटिकाद्वयमेव चोरयित्वा यदा धावितुम् आरब्धवान् तदा मार्गमध्ये मन्त्री लब्धः । प्रवृत्तं सर्वं ज्ञात्वा सः मन्त्री इतोपि एकां सुवर्णपेटिकाम् अपहृतवान् । जनाः पेटिकात्रयमपि चोरेण अ…
  continue reading
 
वयं सर्वे विजयनगरस्य राजानं कृष्णदेवरायं, तस्य परमाप्तमन्त्रिणं तेनालिरामकृष्णं जानीमः एव । तेनालिरामकृष्णः परोपकारी सङ्कटतारकः तीक्ष्णमतिः च आसीत् इति सर्वे जानन्ति स्म । अस्यां स्वारस्यकार्यां कथायां तेनालिरामकृष्णः कथं कञ्चन अश्वपोषकं राज्ञः दण्डनात् रक्षति, कम् उपायं करोति इति पश्यामः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया…
  continue reading
 
यदा पुष्करनगरनृपः कदाचित् रुग्णः जातः तदा राजपुरोहितः सूचयति यत् विपुलस्य सुवर्णस्य दानकरणेन राजा स्वस्थः भवितुम् अर्हति इति । तद्वदेव राजा दशकोटिसुवर्णमुद्राणां दानाय व्यवस्थां करोति । किन्तु मन्त्री नगराध्यक्षः च वञ्चनां कृत्वा अल्पम् एव धनराशिं प्रजाभ्यः दत्तवन्तौ । विपुलं दानं कृत्वा अपि यदा नृपः स्वास्थ्यं न प्राप्तवान् तदा सः सुवर्णस्य दानं य…
  continue reading
 
कदाचित् कश्चन कुक्कुरः दिल्लीतः हरिद्वारं प्रति अधावत् । मार्गे केचन कुक्कुराः भषन्तः एतं कुक्कुरम् अनुसृतवन्तः । एषः कुक्कुरः तैः सह सङ्घर्षम् अकृत्वा हरिद्वारं प्रति अधावत् । यदि सङ्घर्षं कृतवान् स्यात् तर्हि अन्ये कुक्कुराः तस्य महतीं हानिं कृतवन्तः स्युः । तेन समयश्रमयोः महती हानिः अभविष्यत्, अपायः अपि अभविष्यत् । लक्ष्यप्राप्तिमार्गे ये विरोधि…
  continue reading
 
अस्यां कथायां वेदव्यासस्य पुत्रेण शुकदेवेन ज्ञायते यत् एतस्मिन् जगति विधिना निर्मितस्य वस्तुजातस्य अवश्यं हि कापि उपयुक्तता वर्तते एव । पूर्णरूपेण अनुपयुक्तं वस्तु दुर्लभम् एव । ईश्वरेण प्रत्येकं वस्तु मानवलोककल्याणार्थम् एव निर्मितम् । एतस्मिन् लोके सर्वथा अनुपयुक्तम्, अतः एव त्यक्तव्यम् एकमेव वस्तुजातम् । तद् अस्ति अहङ्कारः नाम । अतः सः गुरुं जनक…
  continue reading
 
कस्यचन पण्डितस्य कन्या सर्वगुणसम्पन्ना उच्चाकाङ्क्षिणी च प्रतिज्ञाबद्धा आसीत् यत् सर्वे यं प्रशंसन्ति, यश्च शक्तिशाली भवति तमेव अहं वृणोमि इति । एकदा सा महाराजं दृष्ट्वा तमेव वृणोमि इति अचिन्तयत् । किन्तु सः यदा गुरोः पादस्पर्शं करोति, तदा गुरुः एव श्रेष्ठः इति चिन्तयति । पुनः गुरुः देवं प्रणमति इति करणेन देवः श्रेष्ठः इति चिन्तयति । अन्ततो गत्वा प…
  continue reading
 
कदाचित् प्रह्लादः वरयाचनसमये भगवन्तं नृसिंहं वदति यत् 'अहम् एकाकी मुक्तः भवितुं न इच्छामि । सर्वान् अपि जीवान् स्वीकृत्य वैकुण्ठं प्रति गमनाय अनुमतिं ददातु' इति । 'त्वमेव सर्वान् पृष्ट्वा ये वैकुण्ठं गन्तुम् इच्छन्ति तान् सर्वान् स्वीकृत्य आगच्छ' इति भगवान् वदति । ततः प्रह्लादः प्रष्टुं गच्छति । ब्राह्मणाः, परिव्राजकाः, राजानः, वणिजः, सेवकाः, पशुपक…
  continue reading
 
टिबेटदेशे अधिकतया मौनेन स्थितवन्तं साधुपुरुषं दृष्ट्वा जनाः चिन्तितवन्तः यत् एषः सर्वाणि रहस्यानि जानाति इति । कदाचित् कश्चन युवकः तं रहस्यं ज्ञातुं साधुपुरुषम् उपसर्प्य स्वस्य इच्छां निवेदितवान् । साधुपुरुषः किमपि रहस्यं न जानामि इति प्रथमम् अवदत् । किन्तु युवकेन पुनः पुनः निवेदिते साधुपुरुषः सः कथमपि अन्यत्र प्रेषणीयः इति विचिन्त्य -'ॐ मणिपद्मे ह…
  continue reading
 
राज्ञः शयार्तेः तनया सुन्दरी मनोहारिणी च । तनया सुकन्या शापग्रस्तानां सैनिकानां हिताय च्यवनमहर्षिं परिणीय तस्य सेवायै लग्ना असीत् । एकदा अश्विनीकुमारौ ऋषिसेवारतायाः सुकन्यायाः सौन्दर्यम् अवलोक्य 'एतं वृद्धं विहाय आवयोः अन्यतरं वृष्णीष्व' इति उक्तवन्तौ । तन्निराकरोति सुकन्या । तां पतिव्रतां विज्ञाय अश्विनीकुमारौ प्रसन्नौ भूत्वा आमलकीप्राशननिर्माणविध…
  continue reading
 
रमणमहर्षेः भक्ताः वदन्ति स्म यत् रमणमहर्षिः भगवत्साक्षात्कारम् अपि प्राप्तवान् अस्ति इति । एतत् असहमानाः केचन क्रिस्तधर्मप्रचारकाः महर्षेः दाम्भिकता सप्रमाणं प्रकाशनीया इति सङ्कल्पितवन्तः । अतः‌ ते कतिपयैः विदेशीयैः पत्रकारैः सह महर्षेः आश्रमं गत्वा भवतः ईश्वरस्य साक्षात्कारं द्रष्टुम् इच्छामः इति अवदन् । तदङ्गीकृत्य महर्षिः तान् कुष्ठरोगपीडितस्य ग…
  continue reading
 
अमेरिकादेशे कस्याञ्चित् नद्यां कश्चित् विद्युत्स्तम्भः पतितः । अतिभारयुक्तं तं स्तम्भम् उन्नेतुं कर्मकराः असमर्थाः जाताः । इतोऽपि एकस्य जनस्य साहाय्ये अपेक्षितेऽपि तत्रत्यः प्रमुखः मम योग्यतायाः अननुगुणः व्यवहारः इति मत्वा साहायार्थं न गतवान् । तावता कश्चन अश्वारोही तत्रत्यां स्थितिं दृष्ट्वा कार्ये संलग्नः अभवत् । तस्य प्रोत्साहवचनेन कर्मकराः उत्स…
  continue reading
 
कदाचित् मृगयायै गतः जुनागढदेशस्य मृगयाप्रियः राजा अङ्गारः वेगेन अश्वं चालयन् सहचरेभ्यः पृथक् जातः । मृगयायां मारितान् बहून् शशान् अश्वस्य पुच्छे अबध्नात् सः । प्रतिगमनमार्गम् अजानन् सः इतस्ततः पश्यन् अश्वं मन्दं चालयन् वृक्षस्य मूले उपविष्टं ध्यानमग्नं कञ्चन संन्यासिनं दृष्टवान् । राजा तं प्रणम्य राजधानीं प्रति गमनार्थं मार्गम् अपृच्छत् । संन्यासी …
  continue reading
 
कश्चन महात्मा सर्वसङ्गपरित्यागी इति ख्यातः आसीत् । धनादिषु अल्पा अपि आसक्तिः न आसीत् । कदाचित् प्रयाणावसरे नगरमार्गेण गच्छतः महात्मनः अभिमुखम् आगतः कश्चन श्रेष्ठी वणिक् महात्मनः पादौ अस्पृशत् । झटिति एव महात्मा अपि श्रेष्ठिनः पादौ अस्पृशत् । आश्चर्यान्वितः श्रेष्ठी 'भवादृशेन महात्यागिना सर्वसङ्गपरित्यागिना च किमर्थं मम पादौ स्पृष्टौ ?’ इति पृष्टे म…
  continue reading
 
आसीत् कश्चन वरेण्यनामकः राजा यः धर्मानुयायी प्रजावत्सलः च । तस्य पतिव्रता धर्मपरायणा च पत्नी पुष्पका कदाचित् कञ्चित् विलक्षणं शिशुं प्रसूतवती । चत्वारः हस्ताः, मुखे दन्तः च आसन् तस्य । विलक्षणशिशोः जननं ज्ञातवता राज्ञा शिशुं सरोवरे त्यक्तुम् आदिश्यते । सरोवरस्य समीपे आसीत् पार्श्वमुनेः आश्रमः । प्रतिदिनं सरोवरे स्नानं कर्तुम् आगतवता मुनिना एषः शिशु…
  continue reading
 
शबरीं द्रष्टुम् आगवन्तं रामं आश्रमं परितः विद्यमानानां सुगन्धपूर्णानां पुष्पाणां कथां वदति सा - 'पूर्वम् आश्रमपरिसरे मातङ्गः नाम महर्षिः निवसति स्म । कदाचित् महर्षिः अचिन्तयत् यत् वृष्टेः आरम्भतः पूर्वं यदि काष्ठानि न सङ्गृह्येरन् तर्हि वर्षाकाले महत् कष्टम् अनुभोक्तव्यं भवेत् इति । शिष्येषु केनापि अवधानं न दत्तम् इति कारणतः स्वयं महर्षिः परशुं गृह…
  continue reading
 
कस्याञ्चित् महावाणिज्यसंस्थायां विक्रेतृविभागस्य निमित्तम् अभ्यर्थिनां सन्दर्शनं प्रचलत् आसीत् । अनुभवराहित्येऽपि कस्यचन तरुणस्य सरलतां दृष्ट्वा तम् उद्योगे न्ययोजयत् प्रबन्धकः । 'विक्रयणे विशेषास्था दर्शनीया, प्रगतिः साधनीया च भवता' इति अबोधयत् सः । कञ्चित् कालानन्तरं ज्ञातं कथं सः तरुणः स्वस्य कौशलेन वाणिज्यसामर्थ्येन च संस्थायै दशलक्षरूप्यकमितः …
  continue reading
 
पूर्वं कश्चन राजुकुमारः सकलज्ञानसम्मन्नः बलवान् अधीतराजोचितविद्यः च असीत् । किन्तु धर्मलक्षणं तेन न ज्ञातम् । सः पण्डितान् अपृच्छत् । एकैकः एकैकप्रकारेण धर्मलक्षणं विवृतवान् येन राजकुमारस्य भ्रमः जातः । अन्ते सः कञ्चित् संन्यासिनं दृष्ट्वा स्वस्य समस्यां निवेदितवान् । संन्यासिना कारितायां क्रीडायां राजकुमारेण प्रतिस्पर्धिनि गौरवप्रधानं, मृदु व्यवहा…
  continue reading
 
'यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पुरा कृतं कर्म कर्तारमनुगच्छति ।। 'प्रियम् अप्रियं वा कर्मफलं कर्तारमेव उपैति' इति वचनं अस्माभिः ज्ञातमेव । शास्त्रकुशलोऽपि कश्चन पण्डितः कथं पापं करोति? यदा कर्मफलं पापपुरुषरूपं धृत्वा पण्डितं ग्रहीतुम् आगतवान् तदा तस्य निवारणाय कम् उपायं करोति ? परन्तु अन्ते कर्मफलस्य भोक्ता स्वयमेव अस्ति इति कथं पण्डि…
  continue reading
 
त्रिषु लोकेषु देवताभ्योऽपि महान् पूजनीयः प्रह्लादः इन्द्रेण न असह्यत । सः ब्राह्मणवेषं धृत्वा प्रह्लादनिकटम् आगत्य अकथयत् 'भवतः इहलौकिकस्य पारलौकिकस्य च कल्याणमार्गस्य तत्त्वम् उपदिशतु' इति । तदङ्गीकृत्य प्रह्लादः ज्ञानतत्त्वं बोधयित्वा अन्ते' यद् इष्यते तद् याच्यताम्' इति यदा अवदत् तदा कपटवेषधारी इन्द्रः 'भवतः शीलं ग्रहीतव्यम् इति मम इच्छा' इति प्…
  continue reading
 
कदाचित् कश्चन तरुणः रमणमहर्षिम् उपसर्प्य भगवतः अस्तित्वस्य विषये सन्देहं प्रकटयति । सन्देहस्य कारणे पृष्टे 'यावत् ईश्वरः दृष्टिगोचरः न भवेत् तावत् तस्य अस्तित्वस्य विषये श्रद्धा अपि न भवेत्' इति । तदा महर्षिः मन्दहासपूर्वकम् अवदत् 'अहं कञ्चित् प्रश्नं पृच्छामि । किं भवति बुद्धिमत्ता अस्ति?’ । 'तत्र नास्ति एव सन्देहः' इति यदा तरुणः वदति तदा महर्षिः …
  continue reading
 
कदाचित् 'पञ्जाबकेसरी' इति ख्यातस्य राज्ञः रणजितसिंहस्य राज्यस्य सीमाप्रदेशं केचन लुण्ठाकाः पेशावरनगरस्य लुण्ठनं कुर्वन्तः सन्ति इति गुप्तचराः वार्ताम् आनीतवन्तः । तां वार्तां श्रुत्वा यदा राजा सेनापतिम् आनाय्य अपृच्छत् तदा त्रिगुणितप्रमाणेन स्थितान् तान् लुण्ठाकान् अस्मत्सैनिकाः कथं वा अवरोधयेयुः इति अवदत् सेनापतिः । किमपि उनुक्त्वा अनुक्षणं राजा १…
  continue reading
 
गुरुनानकः कदाचित् यदा प्रियशिष्येण मरदानेन सह विन्ध्याचलपरिसरे गच्छन् आसीत् तदा केचन वन्यजातीयाः मरदानं बद्ध्वा भैरवीगुहां प्रति बलिरूपेण नीतवन्तः । भैरव्याः अर्चकः तस्य मारणाय शूलं गृहीत्वा आगतः। तदा 'वाहे गुरु' इति ध्वनिः श्रुतः । एतस्य श्रवणात् अर्चके विलक्षणं परिवर्तनं दृष्टम् । एतत् दृष्ट्वा वन्यजातीयानां नायकः क्रोद्धेन 'भवान् कः?' इति अपृच्छ…
  continue reading
 
भारतस्य राष्ट्रपतिः डा.राजेन्द्रप्रसादमहोदयः कदाचित् दिल्लीविश्वविद्यालयस्य समारम्भे भागम् अवहत् । समारम्भानन्तरं छात्राः राजेन्द्रप्रसादमहोदयस्य हस्ताक्षरं प्रार्थितवन्तः । सन्तोषेण अङ्गीकृतवान् । कश्चन छात्रः विनोदाय स्वपुस्तके 'स्वर्गस्य राज्यपालत्वेन नियोजनम्' इति लिखित्वा हस्ताक्षराय अयच्छत् । किमपि अवदन् राजेन्द्रप्रसादमहोदयः वाक्यद्वयं लिखित…
  continue reading
 
कदाचित् रात्रौ साबरमतिस्थस्य आश्रमस्य पाकमन्दिरं प्रविष्टवन्तं चोरम् आश्रमवासिनः गृहीतवन्तः । अग्रिमदिवसे प्रात:काले यदा गान्धिवर्यस्य पुरतः सः चोरः उपस्थापितः, तदा तस्मै चोराय प्रथमम् उपाहारं दत्त्वा अनन्तरं मत्समीपे आनेतव्यः इति अवदत् गान्धिवर्यः । अनन्तरं गान्धिवर्येण सुमधुराणि हितवचनानि चोराय उक्तानि । तस्मिन् एव आश्रमे कार्यम् अपि दास्यामि इत्…
  continue reading
 
परमविरक्तः तपस्वी महर्षिः रमणः धर्मशात्राध्ययनेन सङ्कल्पं कृतवान् यत् आवश्यकतायाः अधिकं वस्तु न सङ्ग्रहणीयम् इति । कदाचित् महर्षेः सकाशे यत् एकमेव कौपीनम् आसीत् तदपि शीर्णम् जातम् । महर्षिं दृष्ट्वा नितरां खिन्नाः परमभक्ताः धीरजनाः अञ्जलिं बद्ध्वा नूतनं कौपीनं दद्याम वयम् इति प्रार्थितवन्तः । तदा महर्षिः स्मितपूर्वकम् उक्तवान् -’मत्परिसरे असङ्ख्याः…
  continue reading
 
विश्वसम्मेलने उपस्थितौ कौचित् अमेरिकीयदम्पती स्वामिनं विवेकानन्दं स्वगृहं प्रति निमन्त्रितवन्तौ । गृहम् आगतवते स्वामिने उत्तमभोजनादिशयनव्यवस्थां परिकल्पितवन्तौ । अर्धरात्रे तल्पे विश्रामं कुर्वतः स्वामिनः मनसि दम्पत्योः समग्राम् उत्कृष्टां व्यवस्थां दृष्ट्वा भारतदेशस्य जनानां चित्रम् आगतम् । अपूर्णोदरान् अपर्याप्ताच्छादकान् भारतीयान् स्मृत्वा तन्मन…
  continue reading
 
ईश्वरचन्द्रविद्यासागरः महाविद्वान् परमदयालुः आसीत् । कदाचित् महाविद्यालयस्य पार्श्वे शयानः कश्चित् कर्मकरः ज्वरेन पीडितः आसीत् । तं गृहं नीत्वा वैद्यम् आनाय्य तस्य शरीरस्य मार्जनं, वस्त्रपरिवर्तनम् इत्यादिकं च ईश्वरचन्द्रविद्यासागरेण स्वयमेव कृतम् । एतादृशं व्यवहारं दृष्ट्वा यदा कश्चित् बन्धुः अपृच्छत् - 'किं एषः भवतः बन्धुः ?’ तदा विद्यासागरः वदति…
  continue reading
 
कदाचित् द्वयोः देशयोः मध्ये युद्धः प्रचलति । शिरस्त्राणे सन्ति कपोतस्य सद्योजाताः शिशवः इति कारणतः राजा शिरस्त्राणम् अधृत्वा रणाङ्गणं प्रति गतवान् । एतत् दृष्ट्वा शत्रुराजः कारणं पृच्छति । प्रवृत्तं सर्वं विज्ञाय शत्रुराजः प्रतिवेशिराजस्य शान्तिप्रियताम् अभिनन्दन् अवदत् यत् 'युद्धकारणतः असङ्ख्यानां सैनिकानां मरणे प्रयासः कथम् औचित्यम् आवहेत्? विवेक…
  continue reading
 
कश्चन युवराजः यौवराज्याभिशेकात् पूर्वं स्वस्य विद्यागुरुं अपृच्छत् - ‘राजा शक्तिसम्पन्नः कथं भवति इति?’। तदा अंशत्रयं वदति गुरुः -’प्रजाः आहाराभावं न अनुभवेयुः, शस्त्रास्त्राणां अभावाः देशे न उत्पद्येत, राज्ञि शासने च प्रजानां विश्वासः विनष्टः न भवेत् । त्रिषु अपि प्रजाहितम् एव शासनस्य मुख्यं लक्ष्यं भवति । राजत्वम् अधिकारसूचकं पदं न, अपि तु प्रजास…
  continue reading
 
रमणमहर्षेः आश्रमस्य समीपे कश्चन अध्यापकः निवसति स्म यस्य गृहे प्रतिदिनं कलहमयं वातावरणं भवति स्म । एतस्मात् जुगुप्सितः सः आत्महत्यां कर्तुं निर्णीतवान् । किन्तु आत्महत्यानिर्णयः न सुकरः इति विचिन्त्य मार्गदर्शनं प्राप्तुं सः रमणमहर्षेः आश्रमं गत्वा सर्वं निवेदितवान् । तदा महर्षिः केनचित् निर्दर्शनेन दर्शयति यत् 'योग्यम् उपयोगम् अस्वीकृत्य कस्यचित् …
  continue reading
 
पूर्वं केनचित् राज्ञा वेषान्तरं धृत्वा देशाटनसमये कश्चन ग्रामपरिसरः प्राप्तः । कस्यचित् बालकस्य मुखात् विविधेषु सन्दर्भेषु आगतानि सामान्यानि वचनानि राज्ञि महान्तं परिणामम् अजनयत् । रात्रौ शयनसमये अपि सः तानि एव वचनानि पुनः पुनः वदन् आसीत् । तस्य देशस्य धूर्तः मन्त्री सर्वदेशिकः रात्रौ राजकोषात् धनं चोरयितुम् आगतः । तदा निद्रामग्नस्य राज्ञः मुखात् त…
  continue reading
 
दैवभक्त्या, निःस्पृहतया, परोपकारशीलतया च सर्वत्र ख्यातः आसीत् भगवद्भक्तः गुम्फनदासः । तं सत्कर्तुम् इच्छन् राजा मानसिंहः स्वयं तदीयं गृहं गतवान् । तत्र दर्पणरूपेण जलम्, आसनरूपेण तृणानि दृष्ट्वा राजा रजतासनं सुवर्णदर्पणं कारयित्वा दास्यामि इति वदति । तत् गुम्फनदासेन निराक्रियते । दैनन्दिनव्ययाय धनं, ग्रामाधिकारिपदं वा स्वीक्रियताम् इति राजनि उक्ते ध…
  continue reading
 
कदाचित् अश्वम् आरुह्य गच्छन्तौ गुरुशिष्यौ रात्रिवेलायां कस्मिंश्चित् जीर्णगृहे वासं कृतवन्तौ । अश्वः वृक्षे बद्धः अस्ति । तं रक्षतु । अहं निद्रां करोमि । निद्रानिवारणाय किमपि चिन्तयन् भवतु' इति गुरुः अवदत् । तथैव शिष्यः अकरोत् । मध्ये मध्ये गुरुः उत्थाय पृच्छति किं चिन्तयन् अस्ति, तदा शिष्यः अवदत् - नक्षत्राणि स्वयमेव उत्पन्नानि उत केनचित् स्थापिता…
  continue reading
 
ग्रीष्मकालः आसीत् । महर्षिः जमदग्निः सूर्यतापस्य तीक्ष्णतां न्यूनीकर्तुं पत्न्या रेणुकादेव्या धनुम् आनाय्य सूर्यम् उद्दिश्य एकैकशः बाणानां प्रक्षेपणं अकरोत् । किन्तु भास्करः तथैव ज्वलन् स्थितवान् । महर्षेः क्रोधः पराकाष्ठां गतः । एतदभ्यन्तरे सूर्यदेवः विप्रवेषधारी भूत्वा महर्षिम् उपेत्य एतस्मात् यत्नात् विरमयितुं वदति । यदा महर्षिः एतत् न अङ्गीकरोत…
  continue reading
 
दशमे शतके राजा यशस्करदेवः काश्मीरदेशं पालयति स्म । कदाचित् राजभवनस्य पुरतः प्राणत्यागाय प्रयतमानं सज्जनं आनाय्य कारणम् अपृच्छत् राजा । तदा ज्ञातवान् यत् न्यायाधीशेन अन्याय्यः निर्णयः श्रावितः आसीत् इति । सज्जनः कूपसहितः कश्चन भागः पत्न्यै रक्षित्वा गृहं विक्रीतवान् आसीत् । धनसम्पादनाय अन्यदेशं प्रति गतः यावत् प्रत्यागतः तावता कूपसहितायाः भूमितः पत्…
  continue reading
 
कस्मिंश्चित् राज्ये नूतनमन्त्रिणः चयनदायित्वं राजा वृद्धाय मन्त्रिणे दत्तवान् । निश्चिते दिने बहवः युवकाः अर्हतापरीक्षार्थं राजभवने उपस्थिताः अभवन् । वृद्धः मन्त्री पेयवितारकरूपेण, कृषकरूपेण च वेषं धृत्वा परीक्षाम् अकरोत् । तत्र एकः एव युवकः चषकसङ्ग्रहणे, पङ्कात् शकटस्य उन्नयने च साहाय्यम् अकरोत् । सः एव योग्यतमः इति विचिन्त्य तमेव नूतनमन्त्रित्वेन…
  continue reading
 
चन्द्रनामा चोरः चौर्यकर्मकलाकोविदः एकदा लक्षाधिकानि रूप्यकाणि चोरयित्वा सुरक्षिते स्थले संस्थाप्य निश्चिन्तः अभवत् । तस्य मनःपटले कुलदैवतस्य विष्णोः मूर्तिः उपस्थिता । अतः सः विष्णुमन्दिरं गत्वा समग्रं धनं देवाय अर्पितवान् । ततः तेन विलक्षणः आनन्दः महती तृप्तिः च अनुभूता । मरणानन्तरं यमभटैः सः चित्रगुप्तस्य समीपं नीतः यत्र तस्य पापपुण्यादिविवरणं पर…
  continue reading
 
कृष्णः बाल्ये यदा गृहिण्यः गृहे न स्युः, तदा सः मित्रैः सह प्रतिवेशिगृहं गत्वा नवनीतं चौरयति स्म । एकदा काचित् गोपिका शिक्यायां घण्टिकां बध्नाति । यदा कृष्णः नवनीतं चोरयति तदा घण्टानादः भवेत् इति । परन्तु कृष्णः घण्टिकां दृष्ट्वा ताम् आदिष्टवान् यत् मम स्पर्शे शब्दं न करोतु इति । तथापि, नवनीतं मुखे स्थापनसमये घण्टा उच्चैः शब्दम् अकरोत् । गोपिकायाः …
  continue reading
 
कश्चित् सज्जनः एकदा ग्रामस्य देवालये साधोः प्रवचनं आयोजितवान् यत्र प्रतिदिनं जनाः साधोः प्रवचनं श्रोतुं आगच्छन्ति स्म । एकस्मिन् दिने साधुः स्वर्गनरकयोः विषये सविस्तरं व्याख्यानं कृत्वा यदा अपृच्छत् 'कति जनाः स्वर्गं गन्तुम् इच्छन्ति?’ सर्वे एकस्वरेण 'अहम् अहम्" इति अवदन् । किन्तु एकः बालकः प्रतिस्पन्दं न अकरोत् । पुनः साधुः अपृच्छत् "कति जनाः नरकं…
  continue reading
 
काचित् दरिद्रा महिला कृष्णभक्ता आसीत् । रोगग्रस्तस्य पत्युः चिकित्सायैः सर्वं धनं व्ययीकृतम् आसीत् तया । कृष्णजन्माष्टमीदिने विशेषभोजनं सज्जीकरिष्यामि इति पुत्रान् उक्तवती आसीत् । तस्याः दृढविश्वासः आसीत् यत् देवः कमपि मार्गं दर्शयिष्यति इति । वस्तूनि क्रेतुं यदा आपणं गतवती तदा निर्धनां तां महिलां 'देवस्य कृते लिखितं प्रार्थनापत्रं तुलायां स्थापयतु…
  continue reading
 
कश्चन बौद्धभिक्षुः उत्तमः कलाकारः सन् बौद्धालयस्य निर्माणविन्यासं करोति स्म । भवनं द्रष्टुम् आगतेन केनचन निरुद्योगिना मुख्यप्रवेशद्वारस्य विन्यासरचनसमये शताधिकानि चित्राणि रचितानि चेदपि सर्वत्र दोषः दृश्यते स्म । कदाचित् एकाकिना भिक्षुणा उपविश्य विन्यासः रचितः । 'अल्पे एव काले अद्भुतं चित्रं कथं रचितं भवता?’ इति पृष्टे भिक्षुः अवदत् 'यावत् अन्यस्य …
  continue reading
 
काशीराज्यस्य राज्ञः मनसि चन्द्रवर्माणं कदाचित् त्रयः प्रश्नाः उत्पन्नाः — उत्तमं कार्यं किम्, उत्तमः पुरुषः कः, उत्तमा वेला च का इति । बहुधा प्रयत्नं कृत्वा अपि तृप्तिकरम् उत्तरं न प्राप्नोत् सः । एकदा सः मृगयार्थम् अरण्यं गतः । विश्रामार्थं सः कञ्चित् आश्रमं प्रविष्टवान् । तत्र संन्यासी तं फलादिदानेन सत्कृतवान् । अचिरात् एकः व्रणितः ग्रामीणः आगतः …
  continue reading
 
कश्चन चातकशिशुः पिपासया पीडितः मातुः समीपं गत्वा अवदत् 'अम्ब ! अहं तटाकजलं पातुम् इच्छामि" । माता तम् अबोधयत् यत् तटाकजलं न पातव्यम्, केवलं मेघजलम् एव पातव्यम् इति अस्माकं कुलस्य आचारः' । चातकशिशुः पिपासां सोढुम् अशक्नुवन् गङ्गाजलं पातुम् गङ्गां प्रति गच्छन् रात्रियापनाय कस्यचित् कृषिकस्य गृहे उशितवान् । तत्र कृषकपुत्रयोः सम्भाषणेन ज्ञातं यत् पुत्र…
  continue reading
 
Loading …

त्वरित संदर्भ मार्गदर्शिका

अन्वेषण करते समय इस शो को सुनें
प्ले