सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः ...
…
continue reading
वयं सर्वे ईश्वरचन्द्रविद्यासागरं जानीमः एव । बाल्ये दरिद्रतायाः कारणेन सः शालां गन्तुम् अशक्नुवन् अन्येभ्यः बालेभ्यः अक्षराणि विज्ञाय अक्षराभ्यासं कृत्वा उपयुक्तपूर्वाणि पुस्तकानि पठन् शब्दज्ञानादिकं प्राप्तवान् । पिता उपवासादिकम् आचरन् पुत्रं विद्यालयं प्रति प्रेषितवान् । ग्रामविद्यालयस्य अध्ययनानन्तरं सः नगरीयविद्यालये सर्वेषां साहाय्येन विद्यार्…
…
continue reading
कश्चन गुरुः यानि कार्याणि पूर्वं करोति स्म तान्येव कार्याणि ज्ञानोदयप्राप्तेः अनन्तरमपपि करोति स्म । एतत् दृष्ट्वा कश्चन तरुणः पृच्छति - ‘भवतः ज्ञानोदयः अभवत् इत्येतत् कथं सत्यम्?’ इति । तदा गुरुः उपदिशति - ‘ज्ञानोदयात् पूर्वं कर्तव्यबुद्ध्या कार्यं क्रियते स्म । इदानीं तु आत्मतृप्त्यर्थं कार्यं करोमि । आत्मतृप्त्यै यत्र कार्यं क्रियते तत्र महान् आ…
…
continue reading
कदाचित् राज्ञा सयाजिरावेण विदेशयात्रासमये स्वस्य आप्तसहायकत्वेन परिशुद्धः न्यायाधीशः शिन्देवर्यः नीतः । राजा पेरिस्नगरे सुवर्णापणे बहूनि आभरणानि क्रीतवान् इति कारणतः तस्य आपणस्य प्रतिनिधिः आगत्य शिन्देवर्याय उपायनं दातुं प्रयतते, किन्तु शिन्देवर्यः तन्निराकरोति । तर्हि भवतः परिशुद्धं व्यवहारं महाराजं वदामि इति यदा वदति प्रतिनिधिः, तदपि निराकरोति शि…
…
continue reading
कश्चन तरुणः विद्याभ्यासं समाप्य आत्मानं महाज्ञानिनम् मत्वा यत्र यत्र गच्छति सर्वत्रापि गर्वेण पृच्छति 'मत्समः विद्वान् भवता कोऽपि किं दृष्टः?’ इति । तत् ज्ञात्वा बुद्धः पण्डितवेषं धृत्वा युवकस्य समीपम् आगतवान् । सम्भाषणावसरे बुद्धेन उक्तं -’विद्वान् वादं करोति, ज्ञानी आत्मनः शासनं करोति।' तत् कथनं तरुणे परिणामम् अजनयत् । ज्ञानी कथं आत्मशासनं करोति …
…
continue reading
कदाचित् कश्चन युवकः साक्रेटीसम् उपसर्प्य यशस्वितायाः रहस्यं पृच्छति । अनन्तरदिने साक्रेटीस् दर्शयति यत् - 'यशस्विता परिश्रमम् अपेक्षते, सङ्घर्षप्रवृत्तिम् अपेक्षते । श्रद्धा, प्रयत्नः, परिश्रमः, सङ्घर्षप्रवृत्तिः इत्येते एव यशस्विताप्राप्तेः उपायाः । एतेषु यदि एकः अंशः न स्यात् तर्हि यशस्विता न प्राप्येत' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष…
…
continue reading
अलेक्साण्डरः गुरुं नमस्कृत्य 'भारतं जेतुं कृपया आशिषा अनुग्रहीतव्यः अहम्' इति यदा अवदत् तदा गुरुः अरिष्टाटलः क्षणकालं मुखं निर्निमेषं दृष्ट्वा वदति यत् 'भारतं जेतुं सर्वथा न शक्यम् । वस्तुतः भारतत्वं भवति तत्रात्यायाम् आध्यात्मिकतायाम् । सा च तत्रत्यान् निःस्पृहान् संन्यासिनः अवलम्बते । अजय्याः ते । भारतस्थान् देशान् जयन् एव भारतीयं वैशिष्ट्यम् अवग…
…
continue reading
कदाचित् कस्यचित् भिक्षोः मनसि आगतानां सन्देहानाम् उत्तरम् अदत्त्वा बुद्धः केवलं मन्दाहासं प्रकटयति । तदा भिक्षुः वदति यत् अत्रापि उत्तरं न लभ्यते, लौकिकजीवनं प्रत्येव गमिष्यामि अहम् इति । तदा बुद्धः - 'जीवस्य सत्ता वादं न अवलम्बते । भवन्मनसि आगतानां प्रश्नानामुत्तरं गच्छता कालेन गुरुमुखात् ग्रन्थाध्ययनात् वा प्राप्येत । तर्कमार्गः अन्यः, निर्वाणमार…
…
continue reading
कश्चन धनिकः भक्तः बहुमूल्यकं राङ्कवं यत् श्रीकृष्णबोधानन्दनाम्ने संन्यासिने उपायनीकृतवान् आसीत् तत् राङ्कवं स्वामी पार्श्वे स्थिताय विदुषे दत्तवान् । एतत् धनिकाय न अरोचत इति ज्ञात्वा स्वामी राङ्कवं धनिकाय प्रत्यर्पयितुं विद्वांसम् असूचयत् । राङ्कवस्य प्रतिस्वीकरणम् अनिच्छन्तं धनिकं प्रति स्वामी वदति - ॑'इदं न मम' इति बुद्ध्या यत् दीयेत तस्य उपयोगः …
…
continue reading
कालपुरनाम्नि राज्ये विशेषनियमः आसीत् यत् यः राजा भवेत् सः षडेव वर्षाणि राजत्वसुखम् अनुभवेत् । तदनन्तरं सरोवरस्य अपरस्मिन् तीरे स्थिते घोरारण्ये सः परित्यज्यते स्म । राज्यात् निर्गमनावसरे केचन राजानः बहुधा आक्रन्दन्ति स्म, विलपन्ति स्म । एवं राज्यात् च्युतः कालेश्वरनामा कश्चन राजा अरण्यं प्रति गमनसमये हसनमुखः सन् उत्साहेन अरण्यदिशि पदानि अस्थापयत् ।…
…
continue reading
भगवन्तं साकारत्वेन निर्दिश्य प्रार्थनां कुर्वन्तं कञ्चन ग्रामीणकृषिकं कश्चन पण्डितः शास्त्रीयं प्रार्थनाक्रमं बोधयति । अनन्तरदिने पण्डितेन उपदिष्टं प्रार्थनाक्रमं स्मर्तुम् अशक्नुवन् सः कृषिकः नितरां परितप्तः भवति । रात्रौ पण्डितस्य स्वप्ने देवः प्रत्यक्षीभूय वदति - 'कृषिकः स्वीयक्रमम् अनुचितम् इति मन्यते । त्वया बोधितः क्रमः तेन न स्मर्यते । नितरा…
…
continue reading
लोके जनाः स्वानुभवानुरूपानेव शास्त्रोपदेशान् गृह्णन्ति इत्यस्य उदाहरणं भवितुमर्हति इयं कथा । कदाचित् तीर्थयात्रां कुर्वन्तौ सुहृदौ मार्गभ्रष्टौ भूत्वा क्षुद्बाधया इतस्ततः अटित्वा अन्ते कस्मिंश्चित् ग्रामे देवपूजानिमित्तं परिकल्पितार्थं भोजनार्थम् उपविष्टवन्तौ । भोजनसमये जनैः उक्तं श्लोकं श्रुत्वा तयोर्मध्ये एकः चिन्तयति यत् भोजने विरलतया लब्धे न अध…
…
continue reading
कदाचित् राजगृहनगरे भिक्षाप्राप्त्यर्थं सञ्चरत्सु केषुचित् बुद्धशिष्येषु कश्यपः इति कश्चन अन्यतमः शिष्यः मन्त्रविद्याबलात् स्तम्भस्य उपरि स्थापितं स्वर्णपूर्णं चन्दनकरण्डकं प्राप्तवान् । वृत्तं ज्ञात्वा बुद्धः असन्तुष्टः सन् कश्यपं वदति यत् तत् त्वदीयं न, तस्य प्राप्त्यर्थं कृतः प्रयासः अधोगतिं निरूपयति इति । सामर्थ्यातिशये प्रदर्शिते कथम् अधोगतिं न…
…
continue reading
कदाचित् प्रभाकरः नामा कश्चन गृहस्थः शङ्काराचार्यं दृष्ट्वा प्रार्थयते यत् तस्य द्वादशवर्षीयं जडबुद्धिपुत्रं आशीर्वादेन अनुगृह्य अस्य जडबुद्धितां निवारयतु इति । शङ्काराचार्यः बालकेन सह सम्भाषणं कृत्वा ज्ञातवान् यत् एषः महात्मा अस्ति इति, अपि च पुत्रं मया सह प्रेषयतु इति वदति । पितुः अनुज्ञां प्राप्य शङ्कराचार्येण सह निगर्तः सः बालकः गच्छता कालेन महा…
…
continue reading
कदाचित् वयं चिन्तयामः यत् 'अहम् एकाकी अस्मि' इति । अस्यां कथायाम् अपि पुत्रः तथैव चिन्तयति । किन्तु पिता निदर्शनेन दर्शयति यत् जीवने कोऽपि कदापि न एकाकी । भगवान् सदा अस्माभिः सह स्थित्वा अस्मान् रक्षति । सः एव अस्मान् कष्टकाले तारयिष्यति इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Sometim…
…
continue reading
जगद्देवः इति कश्चन राजा प्रभूतां सम्पत्तिं सम्पादयितुं सर्वदा युद्धे रतः भवति । जगत् एव जेतव्यम् इति तस्य इच्छा । कदाचित् कश्चन संन्यासी आगत्य सुन्दरैः उदाहरणैः राजानं दर्शयति यत् कथं समग्रा भूमिः सम्पत्तिः वा भोक्तुं न शक्यते । अपि च जगदेव जेतव्यमिति मूर्खता अस्ति । राज्ञः आद्य कर्तव्यं भवति यत् जनानां शन्तिं, समृद्धिं, सुखं च चिन्तयेत् । तदनन्तरं…
…
continue reading
कदाचित् गुरोः प्रवचनानन्तरं शिष्येण आनन्देन मया देवः दृष्टः इति कथिते अन्ये शिष्याः हसन्ति । एवमेव बहुवारं प्रवृत्ते, एकस्मिन् दिने गुरुः वदति यत् - 'पुनः देवः दृश्यते चेत् गुरुत्वप्राप्तितः पूर्वं किं किं पापकार्यं कृतं मया इति त्वया प्रष्टव्यम् । तदा एव भवता देवः दृष्टः इत्येतत् प्रमाणितं भवेत्‘ इति । अनन्तरदिने तेन देवः दृष्टः इति निरूपितं भवति …
…
continue reading
सर्वे अपि अपत्यस्य जन्मदिनं निमित्तीकृत्य किमपि उपायनं यच्छन्ति । तत् सर्वं लौकिकम् उपयानं भवति प्रायशः । अस्यां कथायां पुत्र्याः जन्मदिननिमित्तं पिता तिस्रः पेटिकाः ददाति । किं भवितुम् अर्हति तासु पेटिकासु ? कीदृशानि उपायनानि ? लौकिकानि वा तत्त्वबोधकानि वा ? आगच्छन्तु कथां शृण्मः । वयम् अपि तादृशानि उपायनानि एव बालेभ्यः दातुं प्रयत्नं कुर्मः (“केन…
…
continue reading
अस्यां कथायां कश्चन आचार्यः मनोबलस्य महत्त्वं छात्रेभ्यः बोधयति । सिंहः गजवत् न महाशक्तिमान्, उष्ट्रवत् न अत्युन्नतः, शृगालवत् न महाबुद्धिमान्, चित्रकवत् अधिकवेगेन न धावितुं शक्तोति, गरुडवत् अत्युन्नते स्थले डयने असमर्थः, तथापि सः मनोबलेन वनस्य राजा अस्ति । मनोबलं सर्वबलातिशायि । शरीरस्य सर्वाणि अङ्गानि अपि यत्र असफलानि तत्र मनोबलम् एकम् एव अस्माकम…
…
continue reading
समुद्रतीरे पार्श्वे स्थितं पेयं स्तोकं स्तोकं पिबन्तं कञ्चन युवकम्, अपि च तस्य मूर्ध्नि हस्तं प्रसारयन्तीं काञ्चन महिलां दृष्ट्वा भद्रपुरुषः अचिन्तयत् यत् सः युवकः मद्यपः, सा च महिला प्रेयसी गणिका स्त्री इति । तावता समुद्रतः 'रक्षत रक्षत' इति चीत्कारं श्रुत्वा सः युवकः झटिति समुद्रं प्रविश्य परित्राणकार्यम् आरभ्य भद्रपुरुषेण सह सर्वान् रक्षितवान् …
…
continue reading
'ज्येष्ठाः नन्तव्याः' इति आचारः लोके अस्ति । स्नेहं, विश्वासं, आत्मीयतां च वर्धयित्वा सुरक्षाकवचं निर्माति नमस्कारः । इयं कथा तस्य उदाहरणं भवितुम् अर्हति । कुरुक्षेत्रयुद्धे यदा भीष्मः युद्धे पाण्डवान् हनिष्यामि इति घोषणम् अकरोत् तदा कृष्णस्य वचनानुसारं मध्यरात्रे एव द्रौपदी भीष्मावासं प्राप्य नमस्कृतवती । नमस्कुर्वतीं पौत्रवधूं दृष्ट्वा भीष्मः सह…
…
continue reading
कदाचित् कश्चन राजा स्वस्य चित्रं लेखयितुम् ऐच्छन् अत्युत्तमं चित्रकारम् अन्वेष्टुम् आदिशति लभते च । यदा राजा चित्रकाराय स्वस्य इच्छां कथयति, तदा सः 'कियन्मूल्यकं चित्रं लेखनीयम्' इति पृच्छति । कुतूहली सः राजा अल्पमूल्यके चित्रे किं भवति, अधिकमूल्यके चित्रे किं भवति इति पृच्छति । तदा तस्य उत्तरं किं ददाति इत्यादि सर्वं कथां श्रुत्वा जानीयाम । (“केन्…
…
continue reading
कदाचित् कश्चन पण्डितः नद्यां स्नानं कुर्वन् कञ्चन श्रेष्ठतत्त्वयुतश्लोकम् यदा उच्चारितवान् तदा वस्त्रप्रक्षालानाय आगतवती काचित् महिला हसितवती । ग्राममुख्यः यदा महिलाम् आनाय्य किमर्थं पण्डितं अपमानितवती इति पृष्टे, 'अपमानं न कृतवती । लोके अन्यानि अपि श्रेष्ठानि तत्त्वानि सन्ति' इत्युक्त्वा तानि कानि इति विवृणोति । कथां श्रुत्वा ज्ञास्यामः यत् एकैकः …
…
continue reading
कदाचित् महापराक्रमी सम्राट् अशोकः साम्राज्यविस्तरणाय दण्डयात्रां कुर्वन् विजयपुरीम् आक्रम्य तस्य शान्तिप्रियराजं वीरसेनं पराजित्य कारागारे स्थापितवान् । कदाचित् अवगुण्ठनधारिणी काचित् महिला आगत्य स्वीयभूमिं सम्पत्तिं च वशीकृत्य, पतिं कारागारे निक्षिप्तवन्तं विरुद्धं न्यायं याचितवती । कः सः? इति अशोकेन पृष्टे, सा अवगुण्ठनम् अपनीय वदति - सः भवान् एव …
…
continue reading
कदाचित् सम्राट् श्रोणिकः भगवन्तं बुद्धं दृष्ट्वा पृच्छति - ‘सर्वविधानि सुखानि चेदपि कथं मनः प्रसन्नं न भवति इति । तदा बुद्धः वदति - ‘चापल्यत्यागः, विलासिजीवने अल्पप्रवृत्तिः, भोगसाधनानाम् उपयोगे न्यूनतासम्पादनम्, दयास्नेहादीनाम् अवलम्बनं, यावत् प्राप्येत तावता सन्तुष्टिः, दानशीलता इत्यादयाः अंशाः अवलम्बिताः चेत् प्रासादे अपि सन्तोषः प्रातुं शक्यः' …
…
continue reading
कदाचित् महानौकायाम् उत्पन्नायाः समस्यायाः परिहारम् अनवगच्छन्तः तन्त्रज्ञाः असहायकतां दर्शितवन्तः । तावता व्यवस्थापकेन आनीतः कश्चन विशेषतन्त्रज्ञः अनुभवी वृद्धः, अल्पेन कालेन दोषं परिहृतवान् । तेन सर्वैः यन्त्रैः कार्यम् आरब्धम् । कौशलस्य मूल्यमपि अधिकम् इति ज्ञात्वा सः व्यवस्थापकः दशसहस्ररूप्यकाणि विशेषज्ञाय दत्त्वा प्रेषितवान् । (“केन्द्रीयसंस्कृत…
…
continue reading
जनपदचिकित्सालयस्य पुरतः उपविश्य शाकविक्रयणं करोति काचित् वृद्धा बिन्नीबाई इति । चिकित्सालये स्थलाभावात् सञ्चारभूमौ शयनं कुर्वतः रोगिणः दृष्ट्वा सन्तापम् अनुभवन्ती सा मुख्यवैद्याधिकारिणं रोगिणां व्यवस्थां कल्पयितुं शक्यते वा इति पृच्छति । धनाभावात् सर्वकारः प्रकोष्ठनिर्माणे अनासक्तः इति ज्ञात्वा सा स्वस्य ग्रामभूमिं विक्रीय, सञ्चितं धनमपि संयोज्य दश…
…
continue reading
सिकन्दरः यदा भारते क्रमणाय उद्यतः तदा तदीयः गुरुः अरिष्टाटलः उक्तवान् यत् भारतीयानां संन्यासिनाम् आशीर्वादं प्राप्य प्रत्यागच्छेत् इति । कदाचित् दण्डयात्रावसरे दश संन्यासिनः सिकन्दरेण प्राप्ताः । तान् दृष्ट्वा सिकन्दरः - ‘अहं प्रश्नान् पृच्छामि । यस्य उत्तरं तीक्ष्णतमम् अस्ति तं हनिष्यामि' इति । ततः किं भवति, कः संन्यासी तीक्ष्णम् उत्तरं ददाति, सिक…
…
continue reading
कदाचित् अमेरिकादेशे वेदान्तविचारप्राचारसमये काचित् पुत्रशोकम् अनुभवन्ती माता स्वामिनं रामतीर्थं दृष्ट्वा विलुप्तस्य आनन्दस्य पुनःप्राप्तेः मार्गं यदा अपृच्छत् तदा स्वामी समीपस्थम् अनाथबालकं दर्शयन् तं स्वपुत्रं मत्वा पालयेत् इति उक्तवान् । तद्विषये सुदीर्घायाः चर्चायाः अनन्तरं सा महिला अङ्गीकृतवती आनन्दमपि प्राप्तवती । निर्धनानाम् अनाथानां च सेवातः…
…
continue reading
कदाचित् केनचित् तरुणेन शिष्यत्वेन स्वीकर्तुं गुरुः प्रार्थितः । शताधिकाः शिष्याः आश्रमे सन्ति इत्यतः तन्निराकरोति गुरुः । यत्किमपि कार्यं करोमि इति यदा वदाति तदा पाकशालायां पेषणादिकार्यं कुरु इति गुरुः वदति । बहूनां वर्षाणाम् अनन्तरं यदा गुरोः अन्तिमकालः सन्निहितः, शिष्यान् अहूय प्राप्तस्य शिक्षणस्य सारं लिखन्तु इति गुरुः वदति । आगच्छन्तु शृण्मः यत…
…
continue reading
कस्मिंश्चित् वने कश्चित् तक्षकः वृक्षान् कर्तयित्वा, तान् ज्वालयित्वा, कृष्णाङ्गारान् निर्माय विक्रयणं करोति स्म । गच्छता कालेन वनं समाप्तं गतम् । तक्षकः नृपेण मिलित्वा स्वसमस्यां यदा निवेदितवान् तदा राजा महानगरात् बहिः रक्षितं स्वचन्दनवनं तक्षकाय दत्तवान् । चन्दवृक्षस्य मूल्यम् अजानन् सः तक्षकः पूर्ववत् तान् दग्ध्वा कृष्णाङ्गाराणां निर्माणं कृत्वा…
…
continue reading
कश्चन शिष्यः गुरुं पृच्छति यत् - सर्वदा निषिद्धानां एव वस्तूनां स्मरणं भवति । किं करणीयम् इति ? तदा गुरुः वदति - 'निषिद्धविषायाणां चिन्तनमात्रेण न कापि हानिः भवति । किन्तु पुनः पुनः स्मरणात् तेषु प्रवृत्तिः भवेत् इत्यतः सद्विषयाः एव चिन्तनीयाः । तदर्थं सत्कार्येषु प्रवृत्तिः अधिका भवेत् । सद्ग्रन्थान् सच्चरित्राणि च पठनीयानि । सज्जनानां सहवासः अधि…
…
continue reading
वचनानि कागदखण्डाः इव एव भवन्ति । एकस्य मुखात् निर्गताः ते अन्येषां मुखानि कथं प्राप्नुवन्ति इत्यस्य अवगमनमेव दुष्करम् । अत एव यस्य विषयस्य पूर्णज्ञानं अस्माकं न स्यात् तस्य विषये असमीचीनं वचनं कदापि न वक्तव्यम् । एतत् सर्वम् इयं कथा निरूपयति । कथं कस्यचन वृद्धस्य असत्यकथनेन युवकस्य कारागारवासः अभवत् । अन्ते कथं सः वृद्धः स्वदोषम् अवगत्य क्षमायाचना…
…
continue reading
पूर्वं कश्चन योगी अष्ट अपि सिद्धीः प्राप्य अद्भुतकार्याणि प्रदर्शयन् जनेषु महत् आश्चर्यं जनयति स्म । कदाचित् सः 'तिरुवल्लिक्केणी' प्रदेशम् आगत्य मार्गे भूमौ खननं कृत्वा सस्यस्य मूलभागम् उपरि कृत्वा पर्णादियुक्तं भागं गर्ते वपन्तं कञ्चन वृद्धं दृष्ट्वा कीदृशः मूढमतिः त्वम् ? इति पृच्छति । तदा वृद्धः - 'अष्ट सिद्धीः आप्तवान् अपि भवान् क्षुल्लकसिद्धिप…
…
continue reading
आत्मसाक्षात्काराय अपि काचित् अर्हता अपेक्षते इति इयं कथा दर्शयति । कश्चन साधकः आत्मसाक्षात्कारं प्राप्तुम् इच्छन् कञ्चन माहात्मानं मार्गदर्शनं प्रार्थयते । महात्मा प्रतिवर्षं तं परीक्ष्य पुनः जपकरणार्थं प्रेषयति । वर्षत्रयानन्तरं सः साधकः परीक्षायाम् उत्तीर्णतां प्राप्य आत्मसाक्षात्काराय अपेक्षितां योग्यतां निरूपयति । तदनन्तरं सः महात्मा साधकं ब्रह…
…
continue reading
कश्चन कथाकारवृत्तिं कुर्वाणः पिता यदा दिवं गतः तदा तस्य अल्पविद्याः चत्वारः पुत्राः अनाश्रयाः जाताः । कदाचित् राज्ञा तेषां कथाश्रावणाय व्यवस्था कल्पिता । जनानां, राज्ञः, राज्ञ्याः च दर्शनात् तेषां चतुर्णां धैर्यं च्युतं जातम् । एकैकेन एकैकं वाक्यम् एव उक्तम् । वस्तुस्थितिं ज्ञातवती बुद्धिमती राज्ञी तेषां वाक्यानां विवरणं कृत्वा भ्रातॄन् रक्षति । का…
…
continue reading
कदाचित् कश्चन युवराजः स्वसहचरं बन्धनात् विमोक्तुं न्यायाधीशं प्रति सानुरोधेन आज्ञास्वरेण च अवदत् । वादप्रतिवादानाम् अनन्तरं न्यायालये अविनयस्य प्रदर्शनार्थं, न्यायालयकार्ये विघ्नकरणार्थं, औद्धत्यस्य प्रदर्शनार्थं च दिनात्मकेन कारागारवासेन युवराजः दण्डितः न्यायपीठेन । तदा राजा - 'यस्मिन् राज्ये निर्भीकाः न्यायैकपक्षपातिनः भवेयुः तस्मिन् राज्ये प्रजा…
…
continue reading
पक्षिभाषाभिज्ञः राजा देवदत्तः राजकुमारेण सह स्वभवनस्य वाटिकायां निवसत्या चटकया सह सम्भाषणं करोति स्म । कदाचित् चटका यदा आहारार्थं गता आसीत् तदा राजकुमारस्य मनसि दुर्विचारः उत्पन्नः, येन सः चटकशावकं मारितवान् । राजकुमारः एव स्वशावकं मारितवान् इति विचिन्त्य सा चटका चञ्च्वा राजकुमारस्य नेत्रयोः नाशं कृतवती । स्वपुत्रस्य राजकुमारस्य दोषं ज्ञात्वा यद्य…
…
continue reading
बहुभ्यः वर्षेभ्यः कश्चन पण्डितः उपदेशकथादिकं प्रतिदिनं घण्टां यावत् राज्ञे श्रावयति स्म । तथापि राज्ञः कोपशीलतादयः न अपगताः, मनस्संयमः वा न प्राप्तः । चिन्ताक्रान्तः पण्डितः कञ्चन साधुमहाराजं दृष्ट्वा स्वव्यथाम् अकथयत् । सः साधुमहाराजः राजमन्दिरं गत्वा - 'स्वयं मुक्तः एव बद्धं मोचयितुं शक्नुयात् । यः स्वयं न धनमुक्तः, क्रोधमुक्तः, कामनामुक्तः वा सः…
…
continue reading
षोडशे शतके इटलीदेशे कश्चन बालकः दिवं गतां मातरं दर्शयतु इति पितामहीं पीडयति स्म । कदाचित् पितामही गृहाङ्गणं प्रति आनीय 'आकाशस्थेषु असङ्ख्येषु नक्षत्रेषु अन्यतमत्वम् आप्तवती अस्ति तव माता । त्वमेव अभिजानीहि' इति वदति । गच्छता कालेन नक्षत्रवीक्षणं तस्य स्वभावः जातः । प्रौढत्वे प्राप्ते नक्षत्रवीक्षणाय सः एकं दूरवीक्षकं सज्जिकृत्य नक्षत्राणां ग्रहाणां…
…
continue reading
कदाचित् केनचित् राज्ञा दत्तानि दुकूलवस्त्राणि गुरुः भिक्षुकं निर्गतिकावस्थायां दृष्ट्वा तस्मै अयच्छत् । अग्रे कदाचित् राज्ञा दत्तं सुवर्णकङ्कणं पुत्र्याः विवाहं कर्तुं क्लेशम् अनुभवते राजास्थानस्य उद्योगिने अयच्छत् । एतत् ज्ञात्वा राजा एवं किमर्थं कृतवान् इति गुरुं पृच्छति । गुरुः वदति - ‘दानं नाम प्रदत्तस्य वस्तुनः धनस्य वा सम्पूर्णतया स्वामित्वत्…
…
continue reading
जर्मन्देशीयः महाभौतविज्ञानी 'कार्ल् फेडरिक् गास्' बाल्ये कदाचित् मुख्योपाध्यायेन दत्तस्य प्रश्नस्य उत्तरं निमेषद्वयाभ्यन्तरे ददाति । प्रश्नः आसीत् - ‘एकतः शतपर्यन्तं लिखित्वा सर्वेषां सङ्कलनं कृत्वा योगः लेखनीयः' इति । कथम् उत्तरं प्राप्तवान् इति पृष्टे फेडरिक् वदति - ‘आदौ मया प्रथमान्तिमयोः योजनं कृतम् । ततः द्वितीयोपान्त्ययोः योजनं कृतम् । अनन्तर…
…
continue reading
महावीरः नाम नरपतिः गान्धारदेशं पालयति स्म । विवेकिभिः उच्यते - ‘कालम् अवेक्ष्य एव नृपजनान् हितम् अहितं वा उपदेष्टव्यम् । अन्यथा उपदेष्टॄणाम् एव अपायः सम्भवेत्' इति । तत् सत्यम् इति अनया कथया ज्ञायते । को वा नृपम् उपदिष्टवान् ? उपदेशानन्तरं किं प्राचलत् इत्यादयः विषयाः अस्यां कुतूहलकारिकथायां विद्यन्ते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयो…
…
continue reading
कस्मिंश्चित् गुरुकुले गुरुदक्षिणारूपेण किं देयम् इति यदा विद्यार्थिनः गुरुं पृच्छन्ति तदा गुरु वदति - यत् अधीतं तस्य सम्यक् अनुष्ठानं क्रियताम् । स्वावलम्बितया जीवनं कृत्वा वर्षाभ्यन्तरे यत् सम्पाद्येत तत्र कश्चन भागः दीयताम्' । विद्यार्थिनः तथैव कुर्वन्ति । कदाचित् कश्चित् तेजस्वी बालः वर्षाभ्यन्तरे प्रत्यागत्य दश बालान् आनीय - 'यथाशक्ति मया पाठयि…
…
continue reading
कदाचित् बुद्धस्य प्रवचनं श्रोतुं वैशालीतः कश्चित् वणिक आगतः । तस्य मनसि सुमुत्पन्नं प्रश्नं बुद्धं प्रति निवेदयति यत् प्रतिदिनं निर्वाणप्राप्तिविषयं श्रोतुं बहवः जनाः आगच्छन्ति किन्तु तेषु कति जनाः निर्वाणमार्गानुयायिनः स्युः इति । तदा बुद्धः उत्तरं ददाति - ‘उपदेशः मम कर्तव्यं, तत् श्रद्धया करोमि । निर्वाणस्य प्राप्तिः अप्राप्तिः वा तत्तस्य प्रयत्न…
…
continue reading
पूर्वम् असमराज्ये चण्डीचरणतर्कालङ्कारः नाम विद्वान् स्वगृहे एव छात्रान् अध्यापयति स्म । बाल्ये एव पतिविहीना जाता पुत्री द्रवमयी पितुः गृहम् आश्रित्य संस्कृताध्ययने प्रवृत्ता, अल्पे एव काले अपूर्वं पाण्डित्यं प्राप्तवती च । कालान्तरे वार्धक्यस्य अस्वास्थ्यस्य च कारणतः पिता गुरुकुलस्य पिधानं चिन्तितवान् । किन्तु द्रवमयी तत् निराकृत्य स्वयमेव अध्यापनम…
…
continue reading
दक्षिणभारतस्य बळ्ळारिसंस्थानं शिवराजसैन्यं स्वाधीनम् यदा अकरोत् तदा बळ्ळारिसंस्थानस्य राज्ञी मालादेवी शिवराजस्य पुरतः उपस्थापिता सती पराधीनजीवनं निराकृत्य मरणदण्डनं याचितवती । तदा शिवराजः तस्यां मातृत्वं दृष्वा अज्ञानात् यत् आक्रमणं कृतं तदर्थं क्षमाम् अयाचत । बळ्ळारिसंस्थानं च स्वतन्त्रम् अकरोत् च । शिवराजस्य औदार्यस्य विनयस्य च दर्शनात् मालादेव्…
…
continue reading
भगवद्भक्तः नरहरिः पण्ढरपुरे स्थितस्य सुवर्णकारस्य चाङ्गदेवस्य पुत्रः यः शिवपूजां श्रद्धया करोति स्म । शिवभक्तेः अतिरेकात् सः कदापि विठ्ठलमन्दिरं न गतवान् । कदाचित् कश्चित् धनिकः पुत्रप्राप्तेः अनन्तरं विठ्ठलाय सुवर्णकटिसूत्रं अर्पणीयमिति विचिन्त्य तत्कार्यं नरहरये अर्पितवान् । एतावत्पर्यन्तं विठ्ठलं न दृष्टवान् नरहरिः कटिसूत्रनिर्माणकार्ये सफलः भवत…
…
continue reading
'राजतरङ्गिणी' इत्यस्य श्रेष्ठस्य ग्रन्थस्य निर्माता काश्मीरदेशीयः कविः कल्हणः सर्वत्र ख्यातः किन्तु सः एकस्मिन् सामान्ये कुटीरे वसति स्म । कदाचित् उज्जयिनीतः आगतः पण्डितगणः कवेः वसतिविषयं दृष्ट्वा राज्ञः पुरतः स्वस्य असन्तोषं प्राकटयत् । राज्ञः अनुरोधेनापि सः कविः कस्यापि वस्तुनः स्वीकारं न अङ्गीकरोति इति पण्डिताः ज्ञातवन्तः । पण्डिताः यदा राज्ञा द…
…
continue reading
स्वातन्त्र्यसङ्ग्रामकाले यदा गान्धिवर्यः धनसङ्ग्रहणं कुर्वन्नासीत् तदा काचित् निर्धना जीर्णशीर्णावस्थायुक्ता वृद्धा गान्धिवर्यम् उपसर्प्य भक्त्या नमस्कृत्य कटिस्थेन जीर्णवसनेन ग्रन्थीकृत्य संरक्षिताम् एकां कपर्दिकां निष्कास्य तस्य पादयोः समीपे संस्थाप्य ततः निर्गता । यदा श्रेष्ठिवर्यः श्री जमनालालः गणनायां लेखितुं कपर्दिकाम् अयाचत तदा गान्धिवर्यः त…
…
continue reading
शय्याम् आश्रितवान् कश्चन वृद्धः स्वपुत्रं प्रति कानिचन मार्गदर्शकवाक्यानि वदति । यथा सात्त्विकं जीवनं करणीयं, पापकार्याणि न करणीयानि, सज्जनसङ्गः करणीयः, दुर्जनसङ्गः परिहरणीयः इत्यादीनि । विषयं स्पष्टतया अवगमयितुं सः वृद्धः श्रीगन्धचूर्णं अङ्गारचूर्णं च आनाय्य प्रयोगमेकम् कारयति । केवलस्य बोधनस्य अपेक्षया कदाचित् प्रयोगेण विषयस्य अवगमनं शीघ्रं सम्यक…
…
continue reading